________________ 124 श्रीजैनधर्मवरस्तोत्रम् सूत्रम् राकागणेश्वरनिभास्तेज:पुजैरतीव पुण्याढ्याः / तेऽनन्तसुखसमेता अचिरान्मोक्षं प्रपद्यन्ते // 44 // युग्मम् -आर्याच्छन्दः ते भव्याः पुरुषाः अचिरात्-स्तोककालेन मोक्षं-अचलस्थानं प्रपद्यन्ते-प्राप्नुवन्ति तदनुक्रमणिकामाह-कथंभूताः ते ? राका-पूर्णचन्द्रोपलक्षिता तिथि:-पूर्णिमा, अत्र अधिकारात् चैत्रपूर्णिमा तया उपलक्षितो गणेश्वर:-चैत्रपूर्णिमायां लब्धकेवलज्ञानपुण्डरीकगणपतिः तेन निभाः-सदृशाः / कैः ? तेज:पुजैः / अत्र श्लेषपदत्वात् राकागणेश्वरैः श्रीपूर्णिमागच्छपतिभिः श्रीसुधर्मस्वामिपरम्परागतपट्टाम्बुजप्रभापतिभिर्निभा इति / पुनः कथंभूताः ? अतीव पुण्याढ्या:-भृशं सुकृतभृतः, प्राप्तदेवभवा इत्यर्थः / ततोऽनन्तरं पुनः कथं० ? अनन्तसुखसमेताः-अनन्तचतुष्टयसमेताः इति / अत्र ये संस्तवं रचयन्तीति पूर्वकाव्योक्तं तस्यायमर्थः-व्यवहारतो जिनशरीरादिवर्णनम् / यतः "सुवर्णवर्णं गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् / . नरामरेन्द्रैः स्तुतपादपङ्कजं, नमामि भक्त्या वृषभं जिनोत्तमम् // 1 // " वंशस्थम् इति / अथ यत्र ज्ञानदर्शनगुणवर्णना क्रियते सा निश्चयनयस्तुतिः / "स्वयंभुवं भूतसहस्रनेत्रमनेक-मेकाक्षरभावलिङ्गम् / अव्यक्तमव्याहतविश्वलोक-मनादिमध्यान्तमपुण्यपापम् // 1 // " उप० इत्यादि सिद्धसेनकृतद्वात्रिंशद्वात्रिंशिकायाम् पुनर्यतः "ज्ञानविष्णुः सदा प्रोक्त-श्चारित्रब्रह्म उच्यते / सम्यक्त्वं तु शिवः प्रोक्तो-ऽप्यर्हन्मूर्तिस्त्रयात्मिका // 1 // अनु० क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः / इत्येतेऽष्टौ भगवति, वीतरागे गणा मता:१ // 2 // क्षितिरित्युच्यते क्षान्ति-र्जलं ज्योतिः प्रसन्नता / निःसङ्गता भवेद् वायु-र्हताशो योग उच्यते // 3 // अनु० यजमानो भवेदात्मा, तपोदानदयादिभिः / ३अलेपत्वात् तदाकाश-सङ्काशः सोऽभिधीयते // 4 // अनु० सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागः समीक्ष्यते / ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते // 5 // अनु० पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः / श्रीअर्हद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता // 6 // अनु० 1. अत्रत्यश्छन्दोभङ्गश्चिन्त्यः / 2-3. 'या च', 'अलेपकत्वादाकाशः' इति पाठान्तरे तत्त्वनिर्णयप्रासादे (पृ० 75) /