________________ 125 श्रीभावप्रभसूरिकृतम् अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः / हकारेण हरः प्रोक्त-स्तस्यान्ते परमं पदम् // 7 // अनु० अकार आदिधर्मस्य, आदिमोक्षप्रदेशकः / स्वरूपे परमं ज्ञानं, अकारस्तेन उच्यते // 8 // अनु० रूप( पि? )द्रव्यस्वरूपं वा, दृष्ट्वा ज्ञानेन चक्षुषा / दृष्ट्वा लोकमलोकान्तं, रकारस्तेन उच्यते // 9 // अनु० हता रागाश्च द्वेषाश्च, हता मोह परिग्रहाः / / हतानि येन कर्माणि, हकारस्तेन उच्यते // 10 // अनु० सन्तोषेणाभिसम्पूर्णः, प्रातिहार्याष्टकेन च / ज्ञात्वा पुण्यं च पापं च, नकारस्तेन उच्यते // 11 // अनु० * भवबीजाङ्करजनना, रागाद्याः क्षयमुपागता यस्य / ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै // 12 // आर्या इत्यादि स्वरूपतो निश्चयतोऽर्ह इत्यक्षरमध्ये यं परमेष्ठिवाचकं सिद्धचक्रस्यादिबीजं जिनबिम्बस्तुतिद्वारेण अचिरान्मोक्षं प्रपद्यन्ते / इति फलद्वारसहितेन स्तवनस्यान्ते परममाङ्गल्यभूतं दर्शितम् / इति चतुश्चत्वारिंशत्तमवृत्तार्थः // 44 // अथ स्तवनकारः स्वप्रशस्तिमाहसूत्रम् भावप्रभाख्यवरसूरिगणाधिपेन श्रीजैनधर्मवरसंस्तवनं सुरम्यम् / शिष्यस्य कौतुककृते रचितं सुबोधं कल्याणमन्दिरसदन्तिमपादलग्नम् // 45 // व्याख्या-भावेति / 'भावप्रभाख्यवरसूरिंगणाधिपेन' श्रीभावप्रभनाम्ना वरसूरिणागच्छपतिना कर्तृपदेन श्रीजैनधर्मवरसंस्तवनं नाम्ना रचितं-कृतम् / कस्मै ? शिष्यस्य कौतुककृते-शिष्यजनस्य हर्षार्थम् / कृते इत्यव्ययं तादर्थे / यत: "कौतुकं नर्मणीच्छाया-मुत्सवे कुतुके मुदि / पारम्पर्यगतख्यात-मङ्गलोद्वाहसूत्रयोः / गीतादौ भोगकाले च // " इति हैमानेकार्थः (का० 3, 635-636) / कथंभूतं (श्री )जैन० ? सुरम्यम्अतिमनोहरम् / पुनः कथंजैन ? सुबोधं-उत्तानार्थम् / पुनः कथं जैन० ? 'कल्याणमन्दिरसदन्तिमपादलग्नं' कल्याणमन्दिरनाम्नः श्रीपार्श्वनाथस्य श्रीसिद्धसेनस्तुतिकारकृतस्य सदन्तिमपादं-शोभनप्रान्तचरणे लग्नं-संलग्नं-प्रवीभूतं, आश्रितमित्यर्थः // 45 // 1. परीषहाः' इति पाठान्तरं तत्त्व० (पृ० 77) /