________________ 126 श्रीजैनधर्मवरस्तोत्रम् __ इति श्री 'पूर्णिमा' गच्छीयप्रधानशाखीयसुधर्मस्वामिपरम्परागतपट्टाम्बुजतपनवादिमदमर्दनकृतमिथ्यात्वतर्जनश्रीभट्टारकश्रीविद्याप्रभसूरिर्बभूव / तत्पट्टाम्बुजभास्करललितवचनविबोधितभविकनिकरभट्टारकश्रीश्रीललितप्रभसूरिजज्ञे / तत्पट्टचकोरशीतरश्मिभस्मीकृतहृच्छ (द )यसुविनयनशिक्षितशिष्यसमुदयभट्टारकश्रीविनयप्रभसूरि: समजनि / तत्पट्टोदयाचलदिनकरसद्गुणनिकरसच्चारित्रधरसकलविद्यामन्दिरकीर्तिकमलामहिमाकलितमहीमण्डलभट्टारकाखण्डलभ० श्रीश्रीमहिमाप्रभसूरीश्वरा बभूवुः / कवित्तम् शंकर 1 खनशशधरन 2 अवर सुरतुरग 3 रु सुरगज 4 सेस 5 महेश बयल 6 गिरौ 7 उडुगेन 8 वृषभध्वज 9 इन पर छवि अति धरत करत उज्जल इह जानह पूज्य श्रीमहिमाप्रभसूरिरावरो सुजस प्रमानह कवि कहइ कल्याण तुय अरि अजस उन पट ? उन 1 उन रिपु 2 पुछ उनहि 3 मद उनहि 4 नयन 5 नासा 6 उनहि अलक 7 रु अंबर 8 गलगुनहि // 9 // ___तत्पट्टे द्विसप्ततिसप्तैकमित( 1772 )वर्षे माघशुक्लपक्षसुदिने श्री श्रीमालि'ज्ञातीयवृद्धशाखालङ्कारहारश्रीवीराह्ववंशावतंसदोसीश्रीजयतसीसुतदौष्यमुख्यश्रीतेजसीनाम्ना श्रेष्ठिना सकलमहाजनशृङ्गारहारेण सुकलत्रपुत्रपरीवारसहितेन उदारचित्तेन सहस्रशो मिलितमहाजनैश्चतुर्विधसङ्घः सह सुवासनाभिगीयमानेषु धवलमङ्गलेषु, गान्धर्वैर्वाद्यमानेषु वादित्रेषु, भट्टभोजकादिभिः पठ्यमानेषु जिनगुणेषु, दीयमानेषु दानेषु, प्रभावनापूजापुरस्सरबहुद्रव्यव्ययेन कृतपरमोत्सवश्रीभट्टारकश्रीश्रीभावप्रभसूरिः सपरीवारो विजयते / तेन सूरीश्वरेण श्री उकेश'वंशज्ञातीय 'वाणी' गोत्रसाहाश्रीमाण्डणभार्यावाह्निमदेवीकुक्षिसम्भवेन श्रीजैनधर्मवरसंस्तवनस्वोपज्ञवृत्तिविरचिता शिष्याणामनुग्रहहेतवे चन्द्रनवसप्तैकमित (1791) वर्षमार्गशीर्षशुक्लपक्षाष्टम्यां तिथौ सम्पूर्णा जाता / पण्डितजनैर्विशोधनीया मयि कृपां कृत्वा // इति श्रीकल्याणमन्दिरान्त्यपादसमस्यामयं श्रीजैनधर्मवरसंस्तवनं श्रीभट्टारकश्रीश्रीभावप्रभसूरिणा विरचितं सूत्रतो वृत्तितश्च सम्पूर्णम् // श्रीमदखिलभूपालभालचुम्बितपादपीठविशिष्टनरपालश्रीविक्रमादित्यभूपालसमयातीतभूमिनन्दसप्तचन्द्रमिते (1791) वर्षे वैशाखमासे कृष्णपक्षे श्रीमदणहिल्लपुर पत्तने 'ढंढेर'पाटके श्री पूर्णिमागच्छे प्रधानशाखायां भट्टारकश्रीभावप्रभसूरिचरणसरोजचञ्चरीकायमानशिष्यभाणरत्नेन पुस्तकमिदं लिबीकृतम् / / // श्री शुभं भवतु // श्रीकल्याणस्तु // श्रीः // ___1. तात्पर्यम्-शङ्करः, खशशधरौ (आकाशचन्द्रौ), पुनः सुरतुरगः (उच्चैःश्रवाः), सुरगजः (ऐरावणः), शेष (नाग):, महेषवृषभः, गी: ( सरस्वती), उडुगणः, वृषभध्वजः ( महादेवः) अस्योपरि छविं अत्यन्तं धारयन्ति कुर्वन्ति उज्ज्वलं इति जानीध्वं पूज्यमहिमाप्रभसूरिराजवरस्य सुयशः प्रमिमीत इति कविः कथयति कल्याणं, तव अरे: अपयशः अस्य पट: (गजचर्म ), अस्य रिपुः ( राहुः), पुच्छकमस्य (उच्चैःश्रवसः), मदोऽस्य (ऐरावणस्य), नयनं (शेषस्य), नासिका ( मेहेशवृषभस्य), अस्या अलकानि (सरस्वत्या वेणी) पुन: अम्बरं कालकूटम् ( इव) /