Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ श्रीभावप्रभसूरिकृतम् 103 जैनानां नीरागत्वं ज्ञात्वा हृष्टः / मुनिभिर्नवतत्त्वादिविचारः कथितः / राजा जैनधर्म , प्रपद्य सिद्धः / इति कथानकम् / इति द्वात्रिंशत्तमवृत्तार्थः // 32 // सूत्रम् अर्हन्त अर्च्य अशरीर अहिंसकश्च ___ अर्चा अकारनिकरोऽकृतसन्धिकर्मा / मोऽश्रयद् यमनिशं परवत् किमेष / ___सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ? // 33 // व्याख्या-(अर्हन्त इति ) अयं अW:-पूजनीयः / अकारनिकरः अकृतसन्धिकर्मा वर्तते / अकृतः सन्धिः सन्धानं-मेलनं येन तत् अकृतसन्धि, एवंविधं कर्म पापरूपं यस्य यस्माद् वा सः कर्मणा सह अकृतसन्धिः, कर्मविनाशकत्वादित्यर्थः / पुनः शब्दशास्त्रविचारणायामपि न कृतसन्धिकर्म यस्य सः अकृतसन्धिकर्मा / क एष अकारनिकर: तमाहअर्हन्त:-जिनः, अकारान्तोऽयं शब्दः, 'अर्हन् अर्हन्तः' इति शब्दप्रभेदात् अW:-पूज्यः, अशरीर:-सिद्धः अWः, अहिंसकः-साधुः अर्ध्यः, सर्वसावद्यविरतित्वात् / जले जीवाः स्थले जीवा, आकाशे जीवमालिनि / सर्वजीवमयं स्थानं, कथं भिक्षुरहिंसकः ? // 1 // ___ अप्रमत्तः सदोपयोगित्वादहिंसक इत्यागमः / अर्चा-जिनप्रतिमा अर्ध्या-पूज्या / अर्थवशाद् विभक्तिपरिणामः / चः समुच्चायार्थः मर्यो-मनुष्यः अनिशं-निरन्तरं यं अकारनिकारं अश्रयत्-असेवयत् स एषः अकारनिकरः अस्य-मर्त्यस्य प्रतिभवं-भवे भवे किं भवदुःखहेतुः अभवत् ? / क इव ? परवत्-शत्रुरिव / अपि तु सुखदायी एव अभवत् / अथात्र यदा सन्धिः क्रियते तदा अर्हन्तोऽर्योऽशरीरोऽहिंसक इति भवति / 'अतोऽत्युः' (सारस्वते सू० 109), 'उ ओ' ( सा० सू० 45), 'एदोतोऽतः' (सा० सू० 51) इत्यादि सूत्रत्रयं लगति / अर्चा अकार इत्यत्र 'सवर्णे दीर्घः सह' (सा० सू० 52) इति ज्ञेयम् / मूढानामश्लिष्टोच्चारणे झटिति श्रद्धा प्रकटीभवेदिति हेतोः / ___ अथात्र दृष्टान्त:-कस्मिंश्चिन्नगरे द्वौ वणिजौ जन्मतः परस्परं पांसुक्रीडां कुर्वन्तौ वृद्धिं गतौ यौवनं प्राप्तौ सम्मिलितावेव तिष्ठतः / द्वयोर्मध्ये एकतरो यत् किञ्चित् कार्यं करोति तत् कार्यमन्यतरोऽपि करोति / तदा लोकैः ‘एकमनीया' इति तनो म दत्तम् / एकदा सर्वज्ञो
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194