________________ श्रीभावप्रभसूरिकृतम् 103 जैनानां नीरागत्वं ज्ञात्वा हृष्टः / मुनिभिर्नवतत्त्वादिविचारः कथितः / राजा जैनधर्म , प्रपद्य सिद्धः / इति कथानकम् / इति द्वात्रिंशत्तमवृत्तार्थः // 32 // सूत्रम् अर्हन्त अर्च्य अशरीर अहिंसकश्च ___ अर्चा अकारनिकरोऽकृतसन्धिकर्मा / मोऽश्रयद् यमनिशं परवत् किमेष / ___सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ? // 33 // व्याख्या-(अर्हन्त इति ) अयं अW:-पूजनीयः / अकारनिकरः अकृतसन्धिकर्मा वर्तते / अकृतः सन्धिः सन्धानं-मेलनं येन तत् अकृतसन्धि, एवंविधं कर्म पापरूपं यस्य यस्माद् वा सः कर्मणा सह अकृतसन्धिः, कर्मविनाशकत्वादित्यर्थः / पुनः शब्दशास्त्रविचारणायामपि न कृतसन्धिकर्म यस्य सः अकृतसन्धिकर्मा / क एष अकारनिकर: तमाहअर्हन्त:-जिनः, अकारान्तोऽयं शब्दः, 'अर्हन् अर्हन्तः' इति शब्दप्रभेदात् अW:-पूज्यः, अशरीर:-सिद्धः अWः, अहिंसकः-साधुः अर्ध्यः, सर्वसावद्यविरतित्वात् / जले जीवाः स्थले जीवा, आकाशे जीवमालिनि / सर्वजीवमयं स्थानं, कथं भिक्षुरहिंसकः ? // 1 // ___ अप्रमत्तः सदोपयोगित्वादहिंसक इत्यागमः / अर्चा-जिनप्रतिमा अर्ध्या-पूज्या / अर्थवशाद् विभक्तिपरिणामः / चः समुच्चायार्थः मर्यो-मनुष्यः अनिशं-निरन्तरं यं अकारनिकारं अश्रयत्-असेवयत् स एषः अकारनिकरः अस्य-मर्त्यस्य प्रतिभवं-भवे भवे किं भवदुःखहेतुः अभवत् ? / क इव ? परवत्-शत्रुरिव / अपि तु सुखदायी एव अभवत् / अथात्र यदा सन्धिः क्रियते तदा अर्हन्तोऽर्योऽशरीरोऽहिंसक इति भवति / 'अतोऽत्युः' (सारस्वते सू० 109), 'उ ओ' ( सा० सू० 45), 'एदोतोऽतः' (सा० सू० 51) इत्यादि सूत्रत्रयं लगति / अर्चा अकार इत्यत्र 'सवर्णे दीर्घः सह' (सा० सू० 52) इति ज्ञेयम् / मूढानामश्लिष्टोच्चारणे झटिति श्रद्धा प्रकटीभवेदिति हेतोः / ___ अथात्र दृष्टान्त:-कस्मिंश्चिन्नगरे द्वौ वणिजौ जन्मतः परस्परं पांसुक्रीडां कुर्वन्तौ वृद्धिं गतौ यौवनं प्राप्तौ सम्मिलितावेव तिष्ठतः / द्वयोर्मध्ये एकतरो यत् किञ्चित् कार्यं करोति तत् कार्यमन्यतरोऽपि करोति / तदा लोकैः ‘एकमनीया' इति तनो म दत्तम् / एकदा सर्वज्ञो