________________ 104 श्रीजैनधर्मवरस्तोत्रम् गुरुर्मिलितः, तस्य देशनां निशम्य प्रतिबुद्धः एको दीक्षां गृहीतवान्, इतरो न / तदा लोकै प्रोक्तम्-कथं भगवन् ! एकमनस्कौ इमौ धर्मकार्येऽधुना भिन्नमनसौ जातौ ? / सर्वज्ञः प्राह-श्रूयतामेतयोः पूर्वभवम्-कस्याञ्चिदटव्यां द्वौ किरातौ वसतः स्म / कदाचिद् कुतश्चित् गोधनमपहृत्य पृष्टलग्नावाहरकभयान्नष्टौ तौ प्रौढगिरिशिखरं गतौ / तत्रैको मुनिर्नासाग्रभागन्यस्तनेत्रयुग्मो ध्यानमग्नो योगसुखलग्नो दृष्टस्ताभ्याम् / तं दृष्ट्वा एकेन संस्तुतःअहो ! अयं निर्भयो मुनिः सुखासीनो वर्तते / तदा स एको दर्शनरुचिर्जातः / अन्यस्य काष्ठवत् साधुं समीक्ष्य न श्रद्धा जाता / कालान्तरे तो मृत्वा निगमाविमौ जातौ स्तः / तेन दर्शनरुचिनिस्तीर्णः, इतरस्तु नेति कथानकम् / इति त्रयस्त्रिंशत्तमवृत्तार्थः // 33 // अथ सङ्घमाश्रित्याहसूत्रम् सङ्घाधिपत्यतिलकं ननु ये वहन्तः ___ साधर्मिके सततदत्तवराशना ये / मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः / ___पादद्वयं तव विभो ! भुवि जन्मभाजः // 34 // व्याख्या (सङ्केति) / हे विभो ! ननु-निश्चितं ये जन्मभाजो धनाढ्याः सङ्घाधिपत्यतिलकं वहन्तो-दधतो भवन्ति / ये पुनः साधर्मिके सततदत्तवराशना-सदा दत्तभोजनवात्सल्या भवन्ति भुनि-भूमौ ते जन्मभाजः-भव्या लघु-शीघ्रं मुक्तिं व्रजन्ति / कथंभूताः ते ? किं कुर्वन्तः सन्तः ? हे विभो ! तव पादद्वयं नितरां-भृशं भजन्तः / यत: "अद्य मे फलवती पितुराशा, मातुराशिषि 'शिखाङ्करिता यद् / यद् युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः // 1 // २स्वागता संसारेऽसुमतां नरामरभवाः प्राप्ताः श्रियोऽनेकशः कीर्तिः स्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् / स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं 'कदाचिदपि नः सङ्घाधिपत्यं पुनः // 2 // शार्दूल० 1. 'शिखा' इति क-पाठः / 2. स्वागता-लक्षणम्-"स्वागता रनभगैर्गुरुणा चा" 3. स्वर्गराज्यम् / 4. 'कदापि न पुनः' इति ख-पाठः /