________________ 78 श्रीजैनधर्मवरस्तोत्रम् जिनस्य इमे भागवताः / ननु विहारा एव जिनस्य निवासाः 'चैत्यविहारौ जिनसद्मनि" इत्यभिधानचिन्तामणि( का० 4, श्लो० 60 )वचनात् / तर्हि कथं भागवता इति विशेषणेन पुनरुक्तदूषणम् ? उच्यते-नहि दूषणम्, यतः विशेषणपृथक्त्वे विशेष्यमात्रपरता इति / उक्तं च रघुवंशे ( स० 2, श्लो० 12, 73) "सकीचकैारुतपूर्णरन्धैः" इति / कथंभूतैः श्राद्धैः ? दिग्गजैः-दिशां गजसमानैः / पुनः कथं० श्राद्धैः ? 'द्रविणदानघनैः' द्रविणदानेन घना:-मेघा इव तैः / कथं० विहाराः ? उदारा:-प्रधानाः च-पुनः ये श्राद्धाः अत्र चैत्येषु पतितं शृङ्गमित्त्यादिकं सूजन्ति-नवीनं कुर्वन्ति / कथं ? ये रक्षणतत्परा:सम्भालनादिषु आसक्ताः / नूनं-निश्चितं खलु / यतः ते श्राद्धाः ऊर्ध्वगतयः-स्वर्गादिगतिभाजो भवन्ति / यतः "नूतनाहद्वरावास-विधाने यत् फलं भवेत् / तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् // 1 // " अनु० कथं० ? ते (शुद्धभावाः)-निर्मलाशयाः, पवित्रचित्ता इति / यतः 'प्राग्वाट'ज्ञातीयश्रीधरणकसाधुकारो 'राणकपुरे' श्रीऋषभजिनेश्वरत्रैलोक्यदीपकचैत्यं कारयति स्म / श्री सिद्धाचले' दम्पतीभ्यां च चतुर्थव्रतमादाय माला परिहिता इति / अथ पुनः विमलमन्त्री अम्बिका दत्तवरो ऽर्बुदा'चलादिस्थाने चैत्यानि कारयति स्म इति / पुनः वस्तुपालतेजःपालौ 'अर्बुदा'चले लुणगवसही तथा बहूनि चैत्यानि प्रतिबिम्बानि धर्मस्थानानि च सङ्घादिधर्मकार्याणि च कारयामासतुः / इत्यादयो बहवः श्रावका: जैनप्रासादकारकाः जीर्णोद्धारकारका अभ( भू? )वन् भवन्ति ( भविष्यन्ति) चेति / इति द्वाविंशतितमवृत्तस्यार्थः // 22 // अथ भरतचक्रिप्रभृतितश्चैत्यकारापणं दर्शयन्नाहसूत्रम् चैत्यं सवर्णभरितं भरतेन १भव्यं निर्मापितं कलितकेकिकलापशृङ्गम् / यद् वीक्ष्य मक्षु दधति स्म मुदं हि मां श्वामीकरादिशिरसीव नवाम्बुवाहम् // 23 // व्याख्या-चैत्यमिति / भरतेन-भरतचक्रिणा-ऋषभपुत्रेण चैत्यं निर्मापितं-कारितम् / कथंभूतं चैत्यम् ? सुवर्णभरितं-सुवर्णेन भरितं-पूरितं, रचितमित्यर्थः / कथं० चैत्यम् ? . 1. 'नव्यं' इति पाठः श्रीजैनस्तोत्रसङ्ग्रहनाम्नि मुद्रिते ग्रन्थे /