________________ श्रीभावप्रभसूरिकृतम् 79 (भव्यं.) मनोहरम् / पुनः कथं० चै० ? 'कलितकेलिकलापशृङ्ग' कलिता:-कलां प्राप्ताः केकिना-मयूराणां कलापा:-समूहा यस्मिन् तत् एवंविधं शृङ्गं यस्य तत् / हि-निश्चितं 'मा:-मनुष्याः मङ्घ-शीघ्रं मुदं-हर्षं दधति-बिभ्रति / किं कृत्वा ? यत् चैत्यं वीक्ष्यदृष्ट्वा / किमिव ? चामीकराद्रिशिरसि-'मेरु'गिरिशृङ्गे नवाम्बुवाहं-नूतनमेघमिव दृष्ट्वा / चैत्यस्य मेरूपमानं शृङ्गस्य मेघोपमानम् / यतः श्री शत्रुञ्जये' भरतेन चैत्यं कारितं तथा 'अष्टापदे' च चैत्यस्तूपाः कारिताः / यदुक्तं आगमे (सिद्धस्तवेत्यपरनाम्नि सिद्धाणंबुद्धाणंसूत्रे गा० ५)-"१चत्तारि अट्ठ दस दो इ(अ) वंदिया" इत्यादि गाथा द्वादशार्था / इति त्रयोविंशतितमवृत्तस्यार्थः // 23 // अथ २भरतप्रभृतित एव तीर्थादिसेवनं दर्शयन्नाहसूत्रम् शत्रुञ्जयः शमधनाः शमता च शान्तिः * शत्रुञ्जयाह्वयतपः सकलं दुरापम् ? / एतच्छपञ्चकजुषोऽस्ति नरस्य या भा - नीराग ! तां व्रजति को न सचेतनोऽपि // 24 // व्याख्या-शत्रुञ्जय इति / हे नीराग ! हे निर्गतसंसाराभिलाष ! अथवा हे नि:क्लेश ! "रागः स्याल्लोहितादिषु // गन्धा( गन्धारादौ क्लेशादिकोऽ)नुरागे मत्सरे नृपे'' इति हैम: (का० 2, श्लो० 60-61) / एतत् सकलं दुरापं-दुर्लभं वर्तते / एतत् किं तदाहशत्रुञ्जयः-सिद्धाचलः शमधना:-साधवः शमता-उपशान्तिः शान्तिः-(षोडशो) जिनः शत्रुञ्जयाह्वयतपः-षष्ठाष्टमरूपं तप इति / यतः- . "छद्रेणं भत्तेणं अपाणएणं तु सत्त जत्ताओ / जो कुणई सित्तुंजे सो तइयभवे लहइ सिद्धिम् // 1 // षष्ठाष्टमादितपसा, प्राप्यते फलमुत्तमम् / ततोऽत्र कार्यं तच्चैव, विशेषात् सर्वकामदम् // 1 // " 1. छाया-चत्वारः अष्ट दश द्वौ च वन्दिताः / 2. 'भरता नृ )पप्रभृ०' इति क-पाठः / 3. 'याऽऽभा' इत्यपि सम्भवति / 4. छाया-षष्ठेन भक्तेन अपानकेन तु सप्त यात्राः / यः करोति शत्रुञ्जये स तृतीयभवे लभते सिद्धिम् //