________________ श्रीजैनधर्मवरस्तोत्रम् इति शत्रुञ्जयमाहात्म्ये / 'एतच्छपञ्चकजुषः' एतेषां शकाराणां पञ्चकं जुषते इति एतच्छपञ्चकं श्रितस्य नरस्य या भा-कान्तिः आभा शोभा वा अस्ति / यत्तदोः सम्बन्धात् कः-वह्निः सूर्यो वा तां भां न व्रजति-न प्राप्नोति / कथंभूतः कः ? सचेतनोऽपिचेतनायुक्तोऽपि "१चित्तं चेयण सन्ना" इत्यादि वचनात् / "को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले" इत्यनेकार्थः (का० 1, श्लो० 5) / अथवा सचेतनोऽपिचतेनायुक्तो नरोऽपि तां न व्रजति इति परमताक्षेपः / तथाहि "चेतनां नर्तकी कृत्वा, नृत्यं संसृतिसम्भवम् / भावागमेन संवीक्ष्य, योगी प्राप्नोति सम्पदम् // 1 // " ___ इति ज्ञानाङ्कशे / “सद्ध्यानज्ञानसंलीनचेतना / सा हि चेतना'' इति पातञ्जल:( ? ) / इति / "अमात्याः 1 स्वामिनः 2 सिद्धा 3, योगसिद्धश्च 4 चेतना: 5 / रसज्ञाः 6 कामुका 7 मेघा 8, नर्तका 9 योगिनो नव // 1 // " इत्यादि परमतम् // अथात्र दृष्टान्तः कश्चित् कौलधर्मा पुरुषो मद्यमांसासक्तः परस्त्रीरक्तः / यतः" २रण्डा चण्डादीक्षिता धर्मदारा, मांसं मद्यं भुज्यते पीयते च / भिक्षाभोज्यं चर्मखण्डं च शय्या, कौलो धर्मः कस्य नो भाति रम्यः ? // 1 // " शालिनी एवं कुर्वतस्तस्य पुरुषस्य स्पर्शन-रसन-घ्राण-नेत्र-श्रोत्रेषु विषमरोगा जाताः / दवदग्धपादप इव जातः सः / ततो जैनसाधुर्मिलितः / तेन तस्मै रोगकारणं पृष्टम् / साधुनोक्तम्-(जैन)धर्मोद्भवं व्रतं गृहाण, शत्रुञ्जयादि शकारपञ्चकमाराधय / समाधिभविष्यति / ततस्तेन रोगपराभवतो व्रतं गृहीतम् / शत्रुञ्जयक्षेत्रं श्रयति स्म / यमिनां वैयावृत्यं चकार / शमतां दधौ / शान्तिजिनं स्तौति स्म / शत्रुञ्जयषष्ठतपो वहति स्म च सः / एवं कुर्वाणः सम्प्राप्तसकललब्धिः निर्गतसमस्तरोग: निजतेजसा पराभूतवह्निसूर्यः सुवर्णवर्णसञ्जातकायः निर्मायः प्रान्ते मासानशनं कृत्वा प्राप्तकेवलज्ञानः सिद्धः / इति चतुर्विंशतितमवृत्तार्थः // 24 // 1. छाया-चित्तं चेतना संज्ञा / 2. दृश्यते पद्यमिदं श्रीजयशेखरसूरिकृते प्रबोधचिन्तामणी (अ० 4, श्लो० 103) /