________________ श्रीभावप्रभसूरिकृतम् अथ प्रत्यक्षदेवशुद्धिमाहसूत्रम् हस्तं हि हेतिविफलं विकलङ्कमङ्गं मुद्राऽप्यमुद्रसुषमा वनितोज्झितोऽङ्कः / तं देवमेव वदतीति हिताय नाके मन्ये नदन्नभिनभः सुर ! दुन्दुभिस्ते // 25 // व्याख्या-सुर इव यः स सुरः, अथवा सु-अतिशयेन राजते इति सुरः, तस्य सम्बोधनं हे सुर ! शोभमान ! अहं इति मन्ये-जानामि-नाके-स्वर्गे अभिनभः-आकाशे नदन्-शब्दं कुर्वन् सन् दुन्दुभिः तमेव देवं वदति / कस्मै ? ते-तुभ्यम् / हिताय इति / इति किम् ? हि-निश्चितं यस्य देवस्य हस्तं हेतिविफलं-प्रहरणशून्यं वर्तते / पुनः यस्य अङ्ख-शरीरं विकलङ्क-कलङ्करहितं वर्तते / पुनः यस्य मुद्रा-पद्मासनादिमयी मूर्तिरपि शान्तरसमयी / अमुद्रसुषमा-उत्कटशोभा एवंविधा वर्तते / "सुषमा सातिशायिनी" इति हैम्यां (अभि० का० 6, श्लो० 148) / पुनः यस्य अङ्कः-उत्सङ्गः वनितोज्झित:-स्त्रीरहितो वर्तते इति / यतः. "वपुश्च धर्यकशयं श्लथं च, दृशौ न नासानियते स्थिरे च / न शिक्षितेयं परतीर्थनाथै-जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् // 1 // उपेन्द्र० जिनेन्द्र ! यानेव विबाधते स्म, दुरन्तदोषान् विविधैरुपायैः / त एव चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः // 2 // " उपेन्द्र० इति द्वावपि हेमसूरयः (अयोगव्यवच्छेदिकाख्यायां द्वात्रिंशिकायां श्लो० 20, 4) / अत्रान्यदेवे विपरीतत्वं दर्शयति"यद् ब्रह्मा चतुराननः समभवद् देवो हरिर्वामनः शक्रो गुह्यसहस्रसङ्कलतनुर्यच्च क्षयी चन्द्रमाः / यज्जिह्वादलतामवापुरहयो राहुः शिरोमात्रतां तृष्णे ! देवि ! विडम्बनेयमखिला लोकस्य युष्मत्कृता // 1 // " शार्दूल० तथा "ब्रह्मा गुनशिरा हरिदृशि सरुग् व्यालुप्तशिश्नो हरः __सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः / स्वर्णाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि // 2 // " शार्दूल० 1. स्वर्गपतिः-इन्द्रः /