Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 85
________________ 68 श्रीजैनधर्मवरस्तोत्रम् ब्रह्मचारिचूडामणिः महान् देव ईश्वरो वर्तते, यदि स्नात्वा शुचिर्भूत्वा आशातनां मुक्त्वा सेव्यते तदाऽतुलमनोवाञ्छितं भवति / तेनोक्तम्-एवं करिष्यामि, परं सर्वे देवाः सस्त्रीका: सायुधा अन्यत्र विलोक्यन्ते, मम देवोऽयं तद्विपरीत इति हीनत्वं दृश्यते / ततोऽन्यया ढेलडिकया उद्वाह्यते तदा वरम् / यतः "अपत्या१ऽन(न्य ? )ङ्गशुश्रूषा 2, भोगः 3 स्वजनगौरवम् 4 / गृहकर्मप्रयोगश्च 5, स्त्रीवल्ल्यां फलपञ्चकम् // 1 // " अनु० अस्मदादिवत् / तदा मुनिना चिन्तितम्, यतः "श्यामश्वेतारुणाङ्गा 'जलधरणिधरोत्फुल्लपङ्केरुहस्था २भो-मा-सावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्राः / देवा द्वित्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदक्षाः / प्रीता वः पान्तु नित्यं हरि-हर-विधय स्तार्श्वगोहंसपत्राः // 1 // " स्रग्धरा इति / जिनस्तुतयः"प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमङ्क कामिनीसङ्गशून्यः / करयुगमपि धत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव // 1 // " मालिनी परं मूर्खस्त्वनुकूलवृत्त्या ग्राह्यते इति विचार्य मुनिना प्रोक्तम्-हे कावुक ! अस्य द्वे स्त्रियौ स्तः / के ते ? एका राजीमती, अपरा केवलज्ञानलक्ष्मी: / कुत्र ते स्तः ? राजमतीत्वधुना 'निर्याणनगरे सुस्थितपितृगृहेऽत्यन्तसुखिनी स्थिताऽस्ति / अपरा त्वस्य समीपे प्रच्छन्ना वर्तते, यथा महादेवस्य पार्वती प्रत्यक्षा, गङ्गा तु न / यतः 'पार्वतीनश सो ति२९, જટામુગટમાંહિ ગંગગૌરી અર્ધગનિવારણ, પ્રકટ કરઇ નારદ તામ ઉમયા કોપીર્જાઇ, રે ભરડા ભગવાન ! વયણ તવ કવણ પતીજ્જઈ, શિવમ્યું શક્તિ રસી રહી હર મનાવા ટવલઇ, શશીસહિત ઇશ પાએ પડઇ, તામ ચન્દને ઉર મિલઇ //ના'' 1. पानीय-पर्वत-विकसितपद्मस्थायिनः / 2. लक्ष्मी-पार्वती-सावित्रीसमेताः / 3. चक्रधनुष्योगहङ्कारायुधाः / 4. गरुड-वृषभ-हंसवाहनाः / 5. मोक्षपुरि / 6. सुस्थितः-सिद्धः-परमेश्वरः स एव जनकः तस्य गेहे / 7. तात्पर्यम् पार्वत्या ईशेन सह कलहो लग्न: ( जातः ) रतिकारणं जटामुकुटे गङ्गागौरी अर्धाङ्गनिवारणार्थं प्रकटॅयति नारदः / तदा उमा कुप्यति–हे भरटक ! भगवन् ! वचनं तव केन प्रतीत्यते ? / शिवेन शक्तिः ( उमा) रुष्टा जाता।हरो मनोवालनार्थं त्वरयति, शशिसहित ईशः (पार्वत्याः) पादे पतति तदा चन्दनं उरश्च मिलति।

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194