Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 127
________________ 135 राक्षसः प्रहर्षं प्रहर्षं क्षुधापिडितो बहुविधवैचित्र्यादि प्रदर्शयन् मामवोचत् - अयि मानुष ! यदि लङ्कां गन्तुमनाः, यदि विभीषणं निमंत्रयितुमनाः, यदि च निजस्वाम्याज्ञां विधातुमना स्तर्हि वनेSस्मिन् याsssसौ कठनिचयरचिताचिता, तस्यां पतित्वा द्रुतं म्रियस्व । मृतिमन्तरा लङ्कागमनाय मार्गान्तरं नास्ति । एवंभूतां राक्षसीयां युक्तिं श्रुत्वा पूर्वमनुत्सुकमना अभवम् । पश्चास्वामिकार्याय कृतघ्नोऽपि सेवको निजासूनपि समर्पयेत् । इति बहुधा विचिन्त्य प्रतिज्ञापूर्त्तये रोवचसि विश्वासं कुर्वाणो वह्नौ पतितुमभ्यधावम् । पतित्वा च तत्र भस्मीभूतोऽभवम् । ततः स राक्षसो मद्भस्मनिचयमेकीकृत्य विभीषणाय समर्पयत् । मवृत्तान्तमचकथत् स च मम स्वाम भक्तिं विलोक्य मयि समतुषत् मद्भस्मनिचयं सुधया निषिच्य मां सजीवमकार्षीत् । मदीयारूपं चावलोक्य मह्यं कन्यकामेकां समर्पयत् । कन्यया साकं बहुमूल्यबहुविधवासोभूषणहस्त्यश्वखपासुलाद्यनेकवस्तुनिचयं समर्पयत् । परन्तु तत्सर्वमपि गृहीत्वाऽत्रागमनाय काठिन्यं निश्चित्य नाङ्गीकृतं मया तद्वस्तुजातम् । दृष्द्दैवं तेनापि मदर्थमत्याग्रहं कृत्वा त्वमिहैवावतिष्ठस्वेति चाहमवाचिषि । भुज्यन्तां स्वचेष्टितानि ऋद्धिसमृद्ध्यादीनि वस्तूनि, रम्यतां च नवयौवनाभीरूपवती " For Personal & Private Use Only Jain Education International ainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190