Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
बर्द्ध
नसार
५४ ॥
152
इत्येवं दृष्ट्वा दयार्द्रचेताः स हरिबलस्तदानीं व्यचिन्तयत् — यदपराधं चामुं कृत्वा निरयेकां गतिं sasyar को विधेयो ममोपायः । यस्मात्सर्वे नरा निवर्त्तेरन् । पतेश्च्च केवलं वह्नौ मुख्योऽमात्यः । इत्येवं विचारयति हरिबले झटित्येव यमयाष्टिको दूतो हरिबलानाह - भोः यावन्तो वै यूयं वह्निपतनायोत्सुका वर्त्तध्ये, ते समेऽपि यूयं किञ्चिदवतिष्ठध्वम् । मद्वचांसि च प्रतिशृणुध्वम् - यद् यूयं फलाभिलाषुकास्तर्हि व्याकुलचेतसो मा भवत । यतो मे स्वामी यमो विषमः, अतो यो राजातिमानितो भवेत्स एव पूर्वं मया सार्धं वह्नौ पतेत् । ततो राजा, ततः प्रजादीत्थं दैविकं वचः शृण्वन् स मुख्योऽमात्यो मनस्येवं विचिन्तयति स्म - यदहं पूर्वगच्छानि तर्हि स्वमनोऽभीष्टफलं प्राप्नुयाम्, इत्येवं विचार्य सोऽमात्यो राजानमाह - स्वामिन्! यदि भवतामाज्ञा स्यात्तर्हि पूर्वतोऽहं गच्छेयं, राजाप्याह-यथेच्छं व्रज, इत्थं राजाज्ञया यथा कश्चित्स्वर्गसुखभोगाय गच्छेत्तथा स्वात्मानं कृतकृत्यं मन्यमानो मनसि हर्षं दधत् सोऽमात्यो यमयाष्टिकेन सह प्रज्वलितकृशानौ झम्पापातमकरोदेव भस्मीभूतः । इत्थं पापबुद्धिरमात्यो निजमनोरथाय यमराजगृहं सकष्टं जगाम तस्मिन् स राजा सरागः शलभ इव पावकपतनायोद्युतो बभूव । तदानीमेव जातकरुणो हरिबलो
nternational
For Personal & Private Use Only
चरित्रम् |
।। ५४ ।।
www.jainelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190