Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
Jain Educat
193
चतुर्वारमुद्यतासिर्भवान् बभूवान्महिषस्य हननाय, तेन कर्मणाऽत्र भवे चतस्र आपदो जज्ञिरे । परन्तु समुद्भूतकारुण्याद्यत्तदा तस्मिन्नसिमप्रहरन्नेव त्वं न्यवर्तथास्तेन ता आपदोऽपि सम्पदएव समपद्यन्त । सोऽहं महिषजीवस्तदा धर्मं श्रुत्वा सञ्जातवैराग्यवशादनशनमरणात् सुघटितोनाम राजाऽभूत्रपूर्याम् । तेनैव हेतुनाऽत्र जन्मनि त्वयि मम मनःप्रतिकूलतामापत् । बन्धूनामपि पूर्ववैश्वदत्र जन्मनि वैचित्र्यमध्यजायत । येचैते भवतामुपकर्तारस्ते सर्वे भवान्तरे तव सुहृद आसन् । सम्प्रति निज निजकर्मानुसारेण भवता सत्रा राज्यसुखमनुभवन्तितमाम् इत्येतद् गुरुमुखादाकर्ण्य जातजातिस्मृतिर्नरपतिः प्रत्यक्षमिव तदशेषमपश्यत् । अवोचच्च मेदिनीपतिस्तदैवम्-भगवन् ! अहमधुना भवद्वचनाऽऽलोकप्रभावतोऽज्ञानतिमिरपटलीपिहितातोपि सर्वं प्राग्भवीयमपश्यम् । तदैव सपरिवारो नरपतिस्तस्यैव गुरोः पार्श्वे भवाम्भोधेस्तरीमिव सम्यक्त्वमूलकद्वादशश्राद्धव्रतात्मकं देशविरतिमुररीकृतवान् । क्रमशः सर्वारम्भपरित्यागरूपं सर्वविरतिचारित्रमापद्य मतिमान् राजा क्षतनिःशेषकर्तव्यः परमां निर्वृतिमाप । भो भो लोकाः ! अघटनरपतेरिदं प्राग्भवीयं सम्पदामापदाञ्च निदानञ्चरितमाकर्ण्य महोदारे निरतिचारेऽमुष्मिन् धर्मकर्मणि मतिं कुरुत, प्रमादमतिं च
For Personal & Private Use Only
Inelibrary.org

Page Navigation
1 ... 183 184 185 186 187 188 189 190