Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
चरित्रम् ।
192 कुसुमानि ववर्ष । बभाषे च-धन्योऽसि, कुमार ! त्वमिवाऽपरो दृढप्रतिज्ञो विरलएवास्ति लोके । यदेवं नृपादिभिः प्रेर्यमाणो भवन्नपि शैल इव स्वप्रतिज्ञातान्मनागपि न चेलिथ । अतः परं ममागे कोऽपि जीवबलिं माकार्षीत् , यतश्चेयं जीवहिंसा महाघोरनरकं कर्तारं नयति, अत एनां दुर्गति | प्रतोलीमिव सर्वे लोकास्त्यजन्त्वेवेति । तदा देवीवाक्यं शृण्वन्तः सर्वे नरपतिप्रमुखा लोका देव मिव कुमारं तुष्टुवुः, जहुश्च जीवानां हिंसनम्, इष्टवैभवां प्राणिदयामङ्गीचक्रुश्च । तस्मिन्नवसरे कुमा| रस्तु कृपोद्भुतं महाश्चर्यमालोकमानस्तत्रैव परमात्मनि योगीव सर्वात्मना लीनो भवन्नासीत् । तदNI नन्तरं प्रमुदितमनसः सर्वे लोका निजनिजसदनमाययुः। तदनु स्वायुषः क्षये राजा स्वाराज्यं प्रपेदे।
तत्स्थाने च गजभञ्जनकुमारो राजाऽभूत् । अथैकदा रथयात्रायां रत्नमये रथे रोहणाद्राविव प्रच- | लिते सौधद्वारमुपगते सति हर्षोत्कर्षाद्भक्तिमान् राजा जगदय॑ञ्जिनेश्वरमानर्च । चिरं राज्यं कृत्वा सत्यायुःपरिपूर्णे नरेन्द्रो गजभञ्जनः शुभपरिणामेन कालमुपेयिवान् । स त्वमत्र धरित्र्यामधुनाऽवतीर्णोऽसि, मुनिनिन्दाप्रभावतो नीचैर्गोत्रं तेऽभवत् । किञ्च-मुनिदानमाहात्म्यात् तवेदानीमुत्तमा | भोग्यसामग्री जज्ञे, जिनेश्वराऽर्चनप्रभावेणाऽत्र जन्मनि तिरस्कृतेन्द्रराज्यमिदं राज्यमजायत । यत्तदा
।। ७४॥ ww.jainelibrary.org
sain
International
For Personal & Private Use Only
W

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190