Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 186
________________ बद्ध टकुमार ७५ ।। Jain Ed 194 जहित, येन कदाचिदपि मनागप्य मूर्विपदो युष्माकं नागच्छेयुः । स सुघटितो नरेन्द्रः पापेनैव प्रसिद्धं सुतराज्यवियोगजं महादुःखमायिष्ट । नीचकुलावतीर्णोऽप्यसहायोऽप्यघट कुमारस्तु सुविहितैरगण्यैः पुण्यैरेव तदीयं प्राज्यं राज्यमग्रहीत् । अत ऐहिकामुष्मिक सुखलिप्सवो भवन्तः सुतरामधर्म - ज्झन्तु, धर्ममेव चिन्तामणिमिव समाश्रयन्तु. ternational उक्तश्च धनदो धनमिच्छूनां कामदः काममिच्छताम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १ ॥ अथ प्रशस्तिः— श्रीसौधर्म बृहत्तपोगच्छीयराजेन्द्रसूरीश्वर शिष्यः । मुनियतीन्द्रविजयोऽब्दे, जलधित्रसुनवभूमिते गुरुसप्तम्याम् ॥ १ ॥ काव्ये मासि सहस्ये, शुक्ले दलेऽघटकुमारचरित्रम् । गद्यपद्यमयमेनं, मुदितमनाः समापयामास ॥ २ ॥ For Personal & Private Use Only चरित्रम् | ॥ ७५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190