Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 169
________________ | केसरीव दुर्निग्रह आसीत् , अधुना तु शक्रेणापि निग्रहीतुमशक्य एव प्रतीयते । हा हा कीदृशं मे | दुर्दैवं प्रादुरासीत् । यद्यद्विदधे, तत्सर्वं वैफल्यमेव नयते । ततो भूपतिः कुटिलमतिस्तान् विसृज्य । गुप्तलेखेन तमघटमित्यादिशत्-भोः सखे ! पत्रमालोक्य द्रागत्रागत्य मम मिलित्वा जलादिकं पिबेः, | यतो ह्यसाधारणं त्वन्मात्रसाध्यं कार्यमेकमुफ्तस्थे । अघटोऽपि तल्लेखमधिगत्य तरक्षणं करभीमा-1 रुह्य सह पञ्चषैः पत्तिभिरज्ञातचर्यया निश्युपराजमाययौ । तत्रागतमघटमुदीक्ष्य राजापि तदानीं । कृत्रिमं संभ्रमं दर्शयन् सखे ! त्वादृशो भक्तो हितैषी च मम कोप्यन्यो नैवास्ति, एतत्सत्यमवेहि । इत्थं बाह्यमधुरालापेनाऽपृणोच्च । तदनु नृपोऽवक्-अयि-साहसिन् ! सम्प्रति समुपस्थिते सङ्गरे | प्रेषितः कुमारः शिविरे वर्तते, तत्पार्श्वे कोप्यन्यः सांयुगीनः पुमानधुना नास्ति, अतस्त्वामिदानीमनवसरेप्यस्मार्षम् । त्वमधनैव तत्र याहि, मार्गे क्वापि विलम्बमाकार्षीः । त्वयि तत्र वर्तमाने सति सर्वेषां महीयानुत्साहो भविष्यतितमाम्। तदैव स्वहस्तेन लिखित्वा पत्रमघटाय नरेश्वरः समापर्यत् | । राज्ञः कौटिल्यमजानानः सरलाशयोऽघटकमारो नपादेशमादाय तदैवाऽचलत। अथाघटकमारो दिनान्ते कटकासन्ने नन्दनस्यानुजमिव मनोहरं शावलद्रुमाणां वनमाप । तत्रैव पथश्रान्तः स Sain Educ a tional For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190