Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 175
________________ 183 प्यागत्य येन केनापि दुर्धिया छद्मनाऽयङ्कमारो व्यसुरकारि, ध्रुवं तेन पापीयसा सिंहोऽजागारि अथवा कृतान्तः प्राकोपि, इत्यादि जल्पन्तमुद्यतासिमघटं पुरस्तादवलोकमानः किमेतदिति विच्छायवद्नो जल्पद्राजा । तदाऽघटोऽवकू – देव ! अहमिदानीमेकाकी पूजनार्थं गोत्रेश्वरीमन्दिरं व्रजन् मार्गे कुमारेण पृटः सर्वमुदन्तमचीकथम् । तदनु कुमारेणाऽभाणि त्वमत्रैव तिष्ठ, यतस्त्वं तन्मार्गमपि नो जानासि, रात्रावेकाकी कथं तत्र यास्यसि । अतो मयैव तत्राधुना यास्यते इत्युदीर्य मया वारितोऽपि सहसैव कालपाशैराकृष्ट इव मदीयनेपथ्यं परिधाय स गेहान्निरगात् । तदैव कुमारश्वानो जना अपि राजानमिति व्यजिज्ञपन् । राजन् ! अधुना तत्र मायाहि, यत कुमारो व्यसुजतः । साम्प्रतं प्रसादं कृत्वा निजसौधे पादोऽवधार्यताम्, यस्मादमङ्गलं मृताननं राजानो नेक्षन्ते, अथेदृशीं वज्रपातसोदरां गिरं श्रुत्वा शोकशङ्कना कीलितो नरपतिस्तदैव ताम्बूल महासीत् । अथ निजसौधमागतो राजा मानसे निजे दध्यौ - अहो देवस्य चरितं विधिरपि नो जानाति, सर्वतो बलवच्चाऽस्ति, केषामपि वाङ्मनसयोर्गोचरतां नोपैति । यच्चिन्तयति जनस्तत्तु विघटयति, अचिन्तितं पुनरेतद् घटयति, ईदृशं दैवमेव बलीयः प्रमाणञ्चास्ति, मनुष्याणाम्, For Personal & Private Use Only inelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190