Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 180
________________ प्रबद्ध चरित्रम् । 188 पुण्यं सुखादिकं वा सर्वे वेदा अपि दातुमलं नो भवन्ति, नवा विधिवद्विहिताः सर्वे यज्ञास्त- टकुमार पुण्यं जीवानां प्रयच्छन्ति । नैव समेषां तीर्थानामभिषेका वा तावन्ति पुण्यानि वितरन्ति । इत्थं मुनिमुखाद्धर्म निशम्य प्रतिबुद्धो विशुद्धधी राजकुमारो निरागसां जीवानां निग्रहाऽ| भिग्रहमकरोत् । तदा लोकोत्तरोऽपि मुनिस्तस्य राजसूनोर्मनः प्रतिज्ञातार्थपालने दृढीकर्तुं भूयोऽपि जीवदया प्रशशंस । तथाहि-भो राजपुत्र ! त्वमतःपरं मुनीनामपि श्लाध्यतामापिथ; यतः Mi पारम्पर्यगतामपि जीवहिंसां जहिथ इति हेतोनिरतिचारजीवदयापरिपालनात्तव दुर्लभा अपि नराऽमरसम्पदः सुलभा एव भविष्यन्ति । परमेतन्महाव्रतं गृहीत्वा कदाचिदपि लोकानामनुरोधेन मात्याक्षीः, यदुत्तमाः पुमांसः प्राणात्ययेऽपि स्वीकृतं नोज्झन्ति । यदुक्तम् अद्यापि नोज्झति हरः किल कालकूटं, कूर्मा विभर्ति धरणीं खलु पृष्टभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्नि-मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥१॥ व्याख्या-पुरास्वीकृतं कालकूटं प्राणापहारकरमपि विषम्, अद्यापि अद्यपर्यन्तं हरो नोज्झति-नो जहाति, एवं कूर्मः कमठोपि निजपृष्ठभागे दुर्भरामपि पृथ्वीं बिभर्ति-धत्ते, तथा ॥ ७२ ॥ Sain 1 T erational For Personal Private Use Only S w.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190