Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 145
________________ Jain Education 153 राजकरं गृहीत्वा निषिद्धवान्, निषिद्धश्च तमाह - हरिबल ! सुकार्ये कथमन्तरायभूतो भवान् भवति । राज्ञो वचश्च श्रुत्वा सोऽप्याह - राजन् ! यदहं त्वां ब्रवीमि तत्सावधानमनाः शृणुयाः । यो ह्यविचारितं कार्यं विदधाति स ऐहलौकिकपारलौकिकदुःखान्येव सर्वथा सहते । यश्च विचारवान् निपुणो जातः स बहुविचार्य कार्यं विदधातु । राजन् ! यमप्राप्तौ मद्वचांसि सत्यानि मा विद्धि । मृतो जनः कदाचिद्दृष्टो भवता । म्रियमाणो जनः केन वारयितुं शक्यः, एतत्सर्वमेव मया छद्माऽऽवि - ष्कृतम् । यतः कुमतियुतेनाऽमात्येन हि प्रपञ्चरचनां विधाय मुहुर्मुहुः कष्टनयां चिप्तोऽहं तेन तेनैव भवानपि दुःखे पातितः, भवन्तस्तेनैव पातितः । यतस्त्वयि महती वेदनाऽजायत । इत्यादि महान्त्येव दुःखानि प्रदत्तानि तेन, भवादृशे सुज्ञवरे कुबुद्धिरदायि । त्वादृशः सत्पुरुषः परद्रोहपरस्त्री लम्पटो विहितः । यतो वै दुष्टमंत्रिणा राड् दुःखमेवानुभवति । अतो वै छद्मरचनां विधाय दुर्मती - राजमंत्री पावके भस्मीकृतो मया । यतो नीतिरियं -' एधमानं व्याधिं वैरिणं च शीघ्रमेव विनाशयेत् ' तत्रापि त्वं मे स्वामी, अतो वह्निपतनाद् भवन्तं कुतो न निषेधामि । कथितमपि शास्त्रेषु यत्स्वामिनो द्रोहान्महत्पापम् । अन्येन केनचित्सामान्येनापि सह द्रोहान्महत्पापं भवति । तत्र For Personal & Private Use Only rary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190