Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 155
________________ 163 विलोक्य निजवल्लभामभाषत-अयि प्रिये ! विलोकय । दैवात्कीदृशीजाता वनशोभेति । अहो ! किमिदं वनं नीरस्फारभारखिन्नो वारिदोऽसिचत् , येन चिरशुष्कमपि पुनर्नवीभूतभवलोक्यते, किं वा स्वर्गान्नन्दनं वनं भूमावतीर्णम् । तदाऽत्याश्चर्यं पश्यन्ती तद्वधूरिति जल्पितवती-नाथ ! नायमात्मीयः । स्वकीयो हि पुरा विशुष्कतरतरुलतादिक आसीत् स ईदृशः क्षणादजायत, इति कदापि न सम्भवति । पुनरारामिकोऽवदत्-प्रियतमे ! किमिति कथयसि । ममैवेदमुद्यानं, नान्यस्य कस्यापि कथमात्मीयममुमाघाटं विलोकमानापि भवती नात्मीयमिति जल्पति । ममैवेदमिति निश्चित्य प्रेयस्या सत्रा वनान्तरे पत्रैः कुसुमोद्गमैः प्रचुरफलैः शोभितां चेतोहरां तरुराजिं तथा सरित्तुल्या वहन्तीः कुल्याश्च पश्यन् मनसि भृशं तुष्यन् स तत्कूपाभ्याशमागात् । तत्र स्थितभर्मकमवलोक्य मनस्यचिन्तयत् । अहो क्रीडार्थमागतायाः कस्याश्चिदमरवध्वा विस्मृतापत्यमिवैष बालकः प्रतिभाति । तदनु स मालाकारः-प्रोच्वैरघटोऽयमिति जल्पन् तमर्भकमादाय तदीयसुकृतनिचयैः प्रोल्लसदाश्चर्यकारिमनोहारिशरीरत्विषां चयैश्च चित्रीयमाणो भवन् प्रेयसी व्याजहार-सुन्दरि ! एष शिशुः साधारणो नास्ति, कश्चन महाप्रभावो दिव्यात्मकोऽनु in Educ a t For Personal & Private Use Only INDainelibrary.org.

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190