Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
13
मनसि राजा तदैव तं देवधरं प्रसन्नमनाः सत्कृतवान् । सोऽपि नृपादिष्टमावासं मानसं मरालइव | स्रागगच्छत् । तस्मिन् गतेऽतिविस्मितो ज्ञानगर्भो राघवं वशिष्ठ इव तथ्यां वाचमुवाच-महाराज ! | योऽसौ नवयौवनः पुमान् देवधरं दक्षिणेन सदसि श्रीमताऽदर्शि, सोऽस्ते रिव त्वदीये स्थाने | भविता, अत्रार्थे मनागपि संशयं माकार्षीः, इति ज्ञानगोंदितं श्रुत्वा मन्दराचलेन प्रमथितः | | सरिताम्पतिरिव क्ष्मापतेर्मनश्चुक्षोभ । व्याहृतञ्च तेन राज्ञा-अहो ! मयि स्वतन्त्रे सपुत्रे च राजनि। जीवति सत्येव कथङ्कारमेतस्यां श्रीविशालायां नगयाँ राजान्तरो भवितेति । अत्याश्चर्यमेतत् ।। यत्सोऽपि कश्चिद्राजवंशीयो न, किन्तु दास्याः पुत्रः । पुनश्चिन्तयति भूपः, किमेष स एव । | दासेरः किमपरो वा कश्चित् ? नूनं तेनापि कण्ठाभरणमादाय कुत्रापि सोऽर्भको मुमुचे ।।
अहो ! भवान्तरे कीदृशं कार्यमनेन सुकृतं, बलवद्वास्य दैवं येन पुनः पुनर्हन्यमानोऽपि नैव हिंस्यते, सम्भाव्यते सएव वालः। नेतरः। कथमितरथाऽस्य नैमित्तिकस्य ज्ञानगर्भस्याऽऽस्यतः सएवाऽक्षर- | विन्यासः, सैव विस्मयपत्रिका च प्रादुर्भवतितमाम् । इत्थं चेतसि बहुधा चिन्त्यमानो राजाऽतिगूढं | तस्य हननोपायमन्यदेव पुनर्निरचिनोत् । तथाहि-नायमुपायान्तरेण कथमपि वध्यो भवितुमर्हति ।
For Personal Private Use Only
brary.org

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190