Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
१८ रत्नादिकमभीष्टश्चेद्वरय, तदहं तुभ्यं दित्सामि, इत्थं यक्षराजेन प्रोक्तः स उवाच । भगवन् ! | भवदनुकम्पनेन सर्वमेतत्पर्याप्तमस्ति, केवलं पुत्रविरह एव नौ मनो नितरां विदुनोति, यदि प्रसन्नोऽसि तर्हि कुलश्रीवल्लीमण्डपं पुत्रं देहि । यतः-तं विना मनुष्यजन्माप्यवकेशिवद् विफलं | प्रतिभाति । यदाह--अपुत्रस्य गृहं शून्यमित्यादि तच्छ्रुत्वा यक्षेशोऽजल्पत् । वत्स ! विषादं मागाः । कल्पवृक्षवन्मयि कामदे सुप्रसन्ने सति तव दुरापमपि सुलभमेवास्ति । प्रभाते च मन्दिरमागत्य मदङ्कस्थितोऽघटाभिधानो मत्पुत्रो गृहीतव्यस्त्वया, स हि निखिलराजलक्षणलक्षितो महाप्रभावशाली वसुधापतिर्भवितेति निगद्य स यक्षेशोऽदृश्यतामैत्। तत्रावसरे स मनस्येवमचिन्तयत्अहो किमयं स्वप्नः, चित्तभ्रमो वा, काचिन्माया वा, यद्भावि, तद्भवत्येव जात्वपि नैव व्यत्येति, इति साश्चर्यः स प्रगे तस्य यक्षराजस्य मन्दिरमागात् । श्रथ यावदेषोऽन्तः प्रविशति तावत्कणच्चग्गाघर्घरोघटस्ताततातेति भाषमाणस्तदन्तिकमयासीत । देवधरोऽपि वत्स! एह्य मुदाऽऽलिलिङ्ग। तदनु यक्षपादौ नमस्कृत्य तमर्भकं निजसदनमनैषीत्। सर्वं नैशिकयक्षागमनादिवृत्तान्तं कथयित्वा निजभार्यायै तमद्भुतं बालमर्पयत् । सापि निर्धनो निधिमिव तमर्भकं गृहीत्वा
Sain Educa
t ional
For Personal & Private Use Only
inelibrary.org

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190