Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 157
________________ 165 | प्रमोदभरं विभ्रती मालिनी तद्दाम पुष्पकरण्डके निधाय दास्यै समर्प्य स्वयञ्चनिजकठ्यां सुतं । || समारोप्य नृपावासमागतवती । राजसभामागता ससुता सा मालिनी राजानं नमस्कृत्य दक्षिण-d हस्तेन तां स्रजं दधाना देव ! गृह्यतामिदं दामेति राजानं स्पष्टमाचष्ट सा, तत्रावसरे तां माला महीशो मनस्तुरङ्गस्य सहसा नियन्त्रणो विधिरचितां वल्गामिव कामचापस्य ज्यामिव प्रमोदभरस्याऽश्रुलहरीमिव ऋतुराजस्य श्रिया दोलामिव, मृग्या बन्धनाय जालमिवचिरमपश्यत् । कस्य कीदृशी दृष्टिरेतस्यां मालायामर्भकेचामुष्मिन्निति बुभुत्सोर्महीभर्तुस्तदानीं चपलतरादृष्टिः समस्तसभ्यजनोपरिपपात, यतः-राज्ञा भोगिनेवैकदृष्टिना नैव भूयते । पश्यत्सु च सर्वेषु तां मालां तस्य पुरोधसे । दृगमनागपि मालोपरिनापतत् । किञ्च तत्र दामनि भृङ्गीष्विव समेषां सभ्यानां दृष्टिषु निविष्टास्वपि गाढसंमर्दभीतेव पुरोहितस्य दृष्टि ऽगात् । किन्तु तत्राऽर्भकोपर्येव नितरां पपात । तदालोकमानो राजा मनसि दध्यौ, अहो, सर्वे जना एतां मनोरमां सजमेव सहर्ष पश्यन्ति, एष पुनरमुं शिशुमेव ग्रैवेयकविभूषितं गाढं परिपश्यति निरपत्यवत् , कथमिति । तत्रावसरे स राजा IN तां मालामादाय सहर्ष पर्यधत्त, अदीदपञ्च तस्यै मालिन्यै षोडशोत्तरसहस्रदीनारान् अतिप्रीत्या । Sain Educatio n al For Personal Private Use Only Hinelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190