Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 143
________________ 151 बभूवुः । राज्ञश्च पूर्वं या वै दन्तपतनपीडा सेदानीं धर्मराजान्तिकेऽहं निखिलाः समृद्धीः प्राप्स्यामितीच्छया सर्वापि वैनाश्यं लेभे । धर्मराजगृहगमनाय चातीव सोत्साहमना बभूव । तदपेक्षया च पूर्वममात्यः सज्जितो जातः तथा तस्यापेक्षया पूर्वं सदस्या नागरीकाश्च सज्जिता बभूवुः । किं च समेषामपि देवप्रभावतः क्रमशो बुद्धिर्वैनाश्यमत्रजत् । कियन्तो देवबालाः परिणेतुं, कियन्तो दिव्यद्रव्याभरणानि विलोकितुं, कियन्तश्च कौतुकान्यवलोकितुमेव नृपतिना सत्रा नगराद्वहिर्निर्जमुः । अहो ! कीदृशं लोभराज्यादिकम् । इत्येवं विचारनिश्चितेषु तेषु राजानुमत्या नगराद्वहिर्बहुभीत्युत्पादिकां महतीं चितां विरचितामग्निना योजयामासुः । समृद्ध्यादिप्राप्तिस्तु कुत्रैव किं च भस्मीभवनमेव निश्चितम् । तथापि ते सावधानचेतसोत्सुकमनसो जज्ञिरे । अहो अक्षरशः सत्यमेव यत्कीदृक्षं नाम संसारस्वरूपम् । तथाहि जादव्वे होइ मई, हवा तरूणीसु रुवमईसु । ता जड़ जिणवर धम्मे, करमलयजं ठिया सिद्धि ॥ १ ॥ अथ सर्वऽपि ते पीतमद्या इव संसारसुखाभिलाषुका लोभवशङ्गता नववचांसि कुर्वन्तो जगर्जुः, कियन्तो नर्त्तनं, कियन्तो गानं कियन्तश्च हास्यं कर्त्तुमारेभिरे । वह्नौ पतनायोत्सुका बभूवुः । For Personal & Private Use Only national jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190