Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 142
________________ 150 नसार स्वामिने राज्ञे मंत्रिणे चैतेनैव मे सन्तोषः । यतो हीमा बालास्तयोरेवार्हाः। यतो बन्धने वधे युद्धे । चरित्र। दुर्गग्रहणे गृहोत्सवयोश्च यत्र यत्रैव भृत्यः कष्टायते ! तत्कष्टस्य फलप्राप्ती राज्ञे भवति । श्रुत्वैवं सोऽप्याह-अस्तु, त्वं ब्रज, किं च राजादयोऽत्रावश्यं प्रेष्याः । इत्थं मामभिधाय सादरं व्यसर्जयत् । अतएव त्वदाह्वानाय मदर्थं मार्गावलोकनाय तव बहुमानाय च निजो यष्टिकाधारको वैद्युतो नाम भृत्यः प्रैषि मया साद्धर्म, अत इदानीं तेन सह सहर्षी व्रज, तत्र गमनं सुयोग्यमेव । अथ स याष्टिको हरिबलकथनानुसारं सभा स्थितान् सर्वानेवमेवाह-इत्थं तद्वचांसि सत्यानि मन्यमानाः सदस्या नराः सत्यमेवैतदित्याहुः-कार्यश्चैतन्न दुष्कार्य, सर्वमेव सत्यं खलु महाकैतवी सोऽमात्योऽपि देववाक्यं सत्यमेवामस्त । यतश्छद्मकारिणामन्तं ब्रह्मापि नैव जानाति ।' ___ अथाऽमात्यादयोऽपि यमराजगृहं गन्तुमनसो वभूवुः । यस्य यमराजस्य स्मरणादेव भीतिमन्तो भवन्ति सुजनास्तस्मिन्नेव यमे ते समेऽपि सोत्साहचेतसो जज्ञिरे । तदानीं तत्कौतुकावलोकनाय समेऽप्युत्साहवन्तो जाताः। 'यतो वै लुब्धो जनः किं न कुर्यात्? सर्वेष्वपि तेष्वेकोऽवादीत्यत्पूर्वमहं संगच्छेय, द्वितीयो नैव पुराहमेव गच्छामि, एवमभिदधत्सु तेषु सर्व एव गन्तुमुत्सुका |॥ ५३ ।। Sain E l Aternational For Personal & Private Use Only arww.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190