Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala

View full book text
Previous | Next

Page 150
________________ चत्रिम् । 158 गार्हस्थ्यधर्म लब्ध्वा हर्षवान् बोभवाम्बभूव । सर्वस्वविनाशकानि नरकप्रदानि च सप्तव्यसनानि निजदेशाबहिः कृतवान् , निजामृततुम्बाच्च बहून् रोगिणो नीरोगान् विहितवान् , इत्यादि बहुविधपुण्यानि विधाय न्यायनैपुण्यधर्मेकछत्रराज्यं हरिबलोऽपालयत् । अथ व्यतीते कियति समये हरिवलो निजगुरुं पुनः सस्मार । गुरुरपि सुसमयं विज्ञाय काञ्चनपुरोद्याने समाजगाम । हरिवलोऽपि सपरिवारो वन्दनाय प्रतस्थे। वन्दित्वा चोचितस्थाने समुपविश्य देशनां शुश्राव । गुरुरप्युपदिशतिराजन् ! त्वं जीवदयाप्रभावादेव सकलसमृद्धिकोभूतः, केवलं जीवोपकारादियत्फलं जातं । यच्च त्वं जीवानुपकर्यास्तर्हि मौक्तिकसुखं लभेथाः । सर्वजीवदयां कः परिपालयेत् यश्चारित्रं पालयितुं शक्नुयात् । अतस्त्वयेदानीं यतिधर्मो ग्राह्यः येन मोहादिदुःखं विनाश्यात्मीयराज्यं लभस्व । || गुरुवचः समाकर्ण्य परमवैराग्यवान् हरिबलो गृहमागत्य स्वराज्यं ज्येष्ठापत्याय दत्वा सत्रिस्त्रीको II दीक्षया दीक्षितो बभूव । दीक्षितोहर्निशं दुष्करं तपः कृत्वा कर्माणि क्षिप्त्वा शाश्वतसुखमयं मोक्षं प्राप । अतोऽपि भव्याः ! जीवदयाविषये हरिवलचरित्रं लक्ष्यीकृत्य विशेषतो जीवदयापरिपालनोद्यतमानसा भवेयुरिति । ॥ ५७।। Sain International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190