Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 9
________________ वादीभसिंहः । यौवनप्रभवम् । दारुणो लक्ष्मीमदोऽत्यन्ततीव्रो दर्पदाहज्वरोष्मा । अमन्त्रगम्यो विषमो विषयविषास्वादमोह इत्यतो विस्तरेणाभिधीयसे ।' कादम्बरी. ___'वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डित्ये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः। अशेषभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः इति किंचिदिह शिक्ष्यसे।' पृ०४१-४२॥ गद्यचिन्तामणिः. ____३. 'गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति महतीयमनर्थपरम्परा । सर्वाविनयानामेकैकमप्येषामायतनम् । किमुत समवायः ।' कादम्बरी. ___‘अविनयविहंगलीलावनं यौवनम् , अनङ्गभुजङ्गनिवासरसातलं सौन्दर्यम् , स्वैरविहारशैलूषनृत्तास्थानमैश्वर्यम् , पूज्यपूजाविलङ्घनलघिमजननी महासत्त्वता च प्रत्येकमपि भवति जनानामनर्थाय । चतुर्णा पुनरेतेषामेकत्र संनिपातः सद्म सर्वानर्थानामित्यर्थेऽस्मिन्का संशीतिः।' पृ० ४२॥ गद्यचिन्तामणिः. ___ बाणभट्टः स्वकीयहर्षचरितस्य प्रारम्भे केषांचित्प्रख्यातनाम्नां पू. र्वेषां कवीनां नामग्रहणं करोति । तत्र गद्यबन्धस्य निबन्धारौ द्वावेव सुबन्धुहरिचन्द्रनामानौ कवी स्मरति न पुनरन्यं तस्य कृतिं वा । कालिदासकवेः कालः (६३४) चतुस्त्रिंशदधिकषट्छततमाख्रिस्ताब्दात्प्रामिति सर्वजनसंमतम् । बाणभट्टः कविः स्थानेश्वराधीशस्य हर्षवर्धनमहाराजस्य सदसि लब्धप्रतिष्ठ आसीत् । स च राजा हर्षवर्धनः (६१०

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 184