Book Title: Gadya Chintamani Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri Publisher: Madras View full book textPage 7
________________ वादीभसिंहः । . कविरयं कदा बभूवेति न निश्चयः । किंतु वचनसंदर्भरीतिमनुमृत्यैव यत्किंचिदिवास्य कालं निर्णेतुं प्रयत्यते । वादीभसिंहसूरिकृतक्ष. प्रचूडामणिगद्यचिन्तामण्योर्हरिचन्द्रकविरचितस्य जीवंधरचम्पूकाव्यस्य च वचनरचनायामाशयाविष्करणे च तत्रतत्र स्थलेषु सुतरां समुल्लसति साधर्म्यम् । तच्चाधस्तात्किंचित्प्रदर्यते ... १. 'यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहुतभुजि पातः' । पृ० १९. गद्यचिन्तामणिः. 'किं कल्पते कुरङ्गाक्षि शोचनं दुःखशान्तये । आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥' जीवंधरचम्पू:. २. 'सुमित्राद्यास्तयोः पुत्रास्तेष्वप्यन्यतमोऽस्म्यहम् । वयसैव वयं पक्का विश्वेऽपि न तु विद्यया॥' क्षत्रचूडामणिः'तयोः पुत्राः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्वे नद्या हीमा इवाद्रयः ॥' जीवंधरचम्पू:. 'तपांसि तप्यमानस्य तस्य चासीदहो पुनः । भस्मकाख्यो महारोगो भुक्तं यो भस्मयेत्क्षणात् ।। न हि वारयितुं शक्यं दुष्कर्माल्पतपस्यया । विस्फुलिङ्गेन किं शक्यं दग्धुमार्द्रमपीन्धनम् ॥ अशक्त्यैव तपः सोऽयं राजा राज्यमिवात्यजत् । श्रेयांसि बहुविघ्नानीत्येतन्नह्यधुनाभवत् ॥ तपसाच्छादितस्तिष्ठन्स्वैराचारी हि पातकी । गुल्मेनान्तर्हितो गृह्णन्विष्किरानिव नाफलः ॥ अवर्तिष्ट यथेष्टं स पाषण्डितपसा पुनः । चित्रं जैनी तपस्या हि स्वैराचारविरोधिनी॥' क्षत्रचूडामणिः. 'तदनु दिनेदिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गेनेवार्दै 'तदनु दिन जनी तपस्या हिलसा पुनः ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 184