Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 6
________________ || श्री: ॥ ॥ गद्यचिन्तामणिः श्रीवादीभसिंहश्च ॥ अयं वादीभसिंहः कविर्दिगम्बरजैनो यतिः पुष्पसेनमुनेरन्तेवासी च । क्षत्रचूडामणिर्गद्यचिन्तामणिश्चेति द्वावेव ग्रन्थावेतत्कृतावुपलभ्यते । अस्यानितरसाधारणी नैपुणी पश्यन्तः पण्डिताः 'वादीभसिंहः' इति नाम चक्रुरिति प्रतीयते । सांस्कारिकं तु नाम 'ओडयदेवः' इत्यवगम्यते । अत्र प्रमाणवचनानि ग्रन्थादावन्ते च दृश्यन्ते 'श्रीपुष्पसेनमुनिनाथ इति प्रतीतो दिव्यो मनुहृदि सदा मम संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि वादीभसिंहमुनिपुङ्गवतामुपैति' ॥ ६ ॥ 'श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरायास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिर्लोके चिन्तामणिरिवापरः' ॥ अत्र प्रथमोदाहृतश्लोक आत्मनो गुरुचरणध्यानमेवाज्ञानभञ्जकः सुज्ञानजनकः परमो मन्त्रजप इति स्वाशयमाविष्करोति कविः । 'ओडयदेवः' इत्यदसीयनामश्रवणाद्दाक्षिणात्योऽयं कविरित्यवगम्यते । यतः 'उडयदेवः' 'ओडयदेवः' 'ओडयात्तेवः' 'ओडयाल्वार' इत्येवं नामकरणं दाक्षिणात्येष्वेव कतिपयजातीयेषु दृष्टचरं प्रसिद्धं च । अद्यापि विद्यन्त एव शालिवाटीप्रमुखेषु प्रदेशेषु (Tinnevelly and other Districts) 'उडयदेवः' इति नामवन्तोऽवरवर्णजाः पुरुषाः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 184