Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 70
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् .. ___ व्याख्या - यत्र च गणे 'सन्निहि'त्ति आहारमनाहारं च तिलतुषमात्रमपि पानकं वा बिन्दुमात्रमपि तेषां निशास्थापनं संनिधिरुच्यते, संनिधिपरिभोगे रक्षणे च चतुर्गुरुः प्रायश्चित्तं आत्मसंयमविराधना अनवस्थाऽऽज्ञाभङ्गादिदोषाः गृहस्थतुल्यश्चेति, उक्तं च दशवैकालिके "लोभस्सेसमणुप्फासो, मन्ने अन्नयरामवि / जे सिया सन्निहीकामे, गिही पव्वइए न से // 1 // " इति / [दशवै० अ.६/१८] अत्र द्वितीयपदं निशीथचूर्णितो ज्ञेयमिति / 'उक्खड'त्ति औद्देशिकं, तच्चौघविभागभेदाद्विधा, तत्र स्वार्थाग्निज्वालन-स्थाल्यारोपणादिके व्यापारे यः कश्चिदागमिष्यति तस्य दानार्थं यत्क्रियते तदोघौद्देशिकं, विभागौद्देशिकं तु-उद्दिष्टकृतकर्मेति मूलभेदत्रयरूपं उद्देशसमुद्देशादेशसमादेशोत्तरभेदेन द्वादशविधम्, तत्र स्वार्थमेव निष्पन्नं भिक्षादानाय यत्प्रकल्पितं तदुद्दिष्टं 1, यत्कृतोवृत्तं शाल्योदनादि दानाय करम्भः क्रियते तत्कृतं 2, यत्कृतोवृत्तं मोदकचूर्णादि भूयः पाकगुडक्षेपेण दानाय मोदकाः क्रियन्ते तत्कर्म 3, तत्र च ये केचन अवपतन्ति तेभ्यो दातव्यमित्युद्देशः 1, पाषण्डिनां दातव्यमिति समुद्देशः 2, श्रमणानां=शाक्यादीनामादेशः 3, निर्ग्रन्थानाम्= आर्हतानां समादेश 4 इति / 'आहडमाईण'त्ति स्वपरग्रामादेर्जलस्थलपथेन पादाभ्यां नावादिना गन्त्र्यादिवाहनेन वा साध्वर्थं भक्तपानवस्त्रपात्राद्यानयनमभ्याहृतमुच्यते, तेषां, आदिशब्दात्पूतिव्यतिरिक्तानामन्येषां दोषाणां च, पूतिदोषस्त्वग्रे वक्ष्यमाणत्वात्, नामग्रहणेऽपि मुनयो भीता भवन्ति / 'पूईकम्म'त्ति आधाकर्मादि षोडशविध उद्गमः, स च सामान्यतो द्विधा-विशोधिकोटिः 1 अविशोधिकोटिश्च 2 / तत्राऽऽधाकर्म सभेदं 1, विभागौद्देशिकस्य द्वादशविधस्यान्त्यं भेदत्रयं कर्मसमुद्देश 1 कर्मादेश 2 कर्मसमादेश 3 लक्षणं 2, पूतिः=आधाकर्मलेशश्लेषः 3, मिश्रजातं पाषण्डिगृहिमिश्रं साधुगृहिमिश्रं 4, बादरप्राभृतिका=गुर्वागमनं ज्ञात्वा विवाहादिलग्नस्याग्रतः पश्चा करणलक्षणा 5, अध्यवपूरः स्वगृहपाषण्डिमिश्रः स्वगृहसाधुमिश्रः 6, इयमविशोधिकोटिः, अस्यां शुष्कसित्थेनाऽपि पूतिकर्म भवेत्, कल्पत्रये तु दत्ते शुद्ध्यति, उद्गमस्य शेष दोषजालं विशोधिकोटिः, अस्यां मिलितायां यदि विवेकः कर्तुं

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182