Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 155
________________ 130 fcm श्रीगच्छाचारप्रकीर्णकम् . ___ (प्र.अ.) - 'बीअ०' इत्यादि, द्वितीये = अपवादपदेनापि यथागमविधिना सारूपिकादिभिः श्राद्धादिभिर्यतनया अग्निप्रज्ज्वालनं कारापयति स गच्छः / तत्र सारूपिकः कथम् ? मुण्डितोत्तमाङ्गः, शुक्लवाससां परिधायी, कछोटीमबध्नानः, आचार्यक(?अभार्याको)भिक्षां हिण्डमानो हि सारूपिक उच्यते / ये तु शिखामुण्डितशिरसः सभार्यकास्ते सिद्धपुत्राः / त्यक्तलिङ्गचारित्रास्ते पश्चात्कृता इति त्यक्तवेषभेदाः // 80 // (द्वि.अ.) - 'बीय०' इत्यादि, द्वितीयपदे सारूपिकादिभिः श्राद्धादिभिर्यतनया अग्निप्रज्ज्वालनं कारयन्ति स गच्छः / सारूपिकाः = मुण्डितशिरसः, शुक्लवास:परिधायिनः, अबद्धकच्छाः, आचार्यक(?अभार्याको)भिक्षां हिण्डमानाः सारूपिका उच्यन्ते / यस्तु मुण्डितशिरः सशिखाको वा सभार्याकः स सिद्धपुत्रकः / सर्वथात्यक्तचारित्रगुणः स पश्चात्कृत इति व्यपदिश्यते // 80 // पुप्फाणं बीआणं, तयमाईणं च विविहदव्वाणं / संघट्टण-परिआवण, जत्थ न कुज्जा तयं गच्छं ||81|| पुष्पानां बीजानां, त्वगादीनां च विविधद्रव्याणाम् / सङ्घट्टनं परितापन, यत्र न कुर्यात् स गच्छः // 81 // (प्र.अ.) - 'पुप्फाणं०' इत्यादि, पुष्पाणां, बीजानां, त्वचादीनां च विविधसचित्तद्रव्याणां संघट्टपरितापनादिकं यत्र न क्रियते स गच्छः // 81 // (द्वि.अ.) - 'पुप्फा०' इत्यादि, पुष्पाणां, बीजानां, त्वचादीनां च विविधसचित्तद्रव्याणां संघट्टपरितापनादिकं यत्र न क्रियते स गच्छः // 81 // हासं खेड्डा कंदप्प, नाहियवायं न कीरए जत्थ / धावण डेवण लंघण-ममकाराऽवण्णउच्चरणं ||82|| हास्यं खेला कान्दी नास्तिकवादो न क्रियते यत्र / धावनं डेपनं लङ्घनं ममकारः अवर्णोच्चारणम् // 82 // (प्र.अ.) - 'हासं०' इत्यादि, परजीवोपहसनरूपहास्यम्, क्रीडाम् = द्युतादिकाम्, 1. 'जइ हास खेड्डु कंदप्प नाहवायं' F-प्रते / - -- - - - - - - - - -

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182