Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ ben पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् / शीलतपोदानभावनाचतुर्विधधर्मान्तरायभयभीताः / यत्र बहवो गीतार्था गौतम ! गच्छः स भणितः // 100 // __ (प्र.अ.) - 'सील०' इत्यादि, शीलतपोदानभावनारूपचतुर्विधधर्मांतराय = धर्मविघ्नभयभीता यत्र = गच्छे एवंविधा बहवो गीतार्था सन्ति स गच्छः // 10 // (द्वि.अ.) - ‘सील०' इत्यादि, शीलतपोदानभावनारूपचतुर्विधधर्मांतरायभयभीताः / यत्र एवंविधा बहवो गीतार्था वर्तन्ते स गच्छः // 100 // उक्तमुत्तमगणस्वरूपम्, अथाधमाधमगणस्वरूपमाह - जत्थ य गोयम ! पंचण्ह, कहवि सूणाण इकूमवि हुज्जा | तं गच्छं तिविहेणं, वोसिरिअ वइज्ज अन्नत्थ ||101 / / यत्र च गौतम ! पञ्चानां, कथमपि सूनानामेकमपि भवेत् / तं गच्छं त्रिविधेन, व्युत्सृज्य व्रजेदन्यत्र // 101 / / ___ (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र पञ्चानां शूनानां मध्ये एकोऽपि शूनाघाटको भवेत् / तं गच्छं त्रिविधेन व्युत्सृज्य = त्यक्त्वा अन्यत्र गच्छेत् / तद्यथा - (1) खंडणी (2) पेषणी (3) चुल्ही (4) जलकुम्भी (5) प्रमार्जनी पञ्च शूना / (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र पञ्चानां शूनानां मध्ये एकोऽपि भवेत् / तं गच्छं त्रिविधेन व्युत्सृज्य = त्यक्त्वा अन्यत्र गच्छेत् / तत्र घरट्टिका (1) उदूखल (2) चूल्ही (3) पानीयगृहम् (4) प्रमार्जनिका (5) रूपा पञ्च शूना / अथ उक्तं च शुकसंवादे - कंडनी पेषनी चुल्हीत्यादि // 101 / / सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा | जं चारित्तगुणेहिं तु उज्जलं तं तु सेविज्जा ||102 / / सूनारम्भप्रवृत्तं, गच्छं वेषोज्ज्वलं न सेवेत / यश्चारित्रगुणैः तूज्ज्वलस्तं तु सेवेत // 102 // (प्र.अ.) - 'सूणा०' इत्यादि, सूनारम्भप्रवृत्तं, वेषणोज्ज्वलमेवंविधं गच्छं न - - - - - - 1. 'न वासिज्जा' E-F-G-प्रते /

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182