Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 179
________________ 154 gaon श्रीगच्छाचारप्रकीर्णकम् - (द्वि.अ.) - 'तम्मू०' इत्यादि, आर्या धर्मोपदेशं मुक्त्वा अन्यद् न भाषते / अन्यसावद्यभाषणे हे गौतम ! तन्मूलं संसारं जनयति // 133 / / मासे मासे उ जा अज्जा, एगसित्येण पारए / कलहे गिहत्थभासाहिं, सव्वं तीए निरत्ययं ||134|| मासे मासे तु या आर्या एकसिक्थेन पारयेत् / कलहे गृहस्थभाषाभिः, सर्वं तस्याः निरर्थकम् // 134 // (प्र.अ.) - 'मासे०' इत्यादि, या आर्या मासे मासे मासक्षपणं कृत्वा चैकसिक्थेन पारणकं करोति, एवंविधाऽपि गृहस्थभाषां भाषते, कलहं करोति, सर्वं तस्या निरर्थकम् // 134 // (द्वि.अ.) - 'मासे०' इत्यादि, याऽऽर्या मासे मासे मासक्षपणं कृत्वा एकसिक्थेन पारयति, साऽपि चेद् गृहस्थाभाषाभिः कलहायते, तदा तस्याः सर्वं निरर्थकम् // 134 // अथ कस्मादिदमुद्धरितम् ? इति दर्शयति - महानिसीह-कप्पाओ, ववहाराओ तहेव य | साहु-साहुणिअट्टाए, गच्छायारं समुद्धियं ||135|| महानिशीथकल्पात् व्यवहारात् तथैव च / साधुसाध्वीनामर्थाय गच्छाचारः समुद्धृतः // 135 / / (प्र.अ.) - 'महानि०' इत्यादि, महानिशीथात्, कल्प-व्यवहारात् तथैव, साधुसाध्वीनां हितार्थाय गच्छाचारप्रकीर्णकमुद्धृतम् = तान् विचारान् विलोक्य कृतम् // 135 // (द्वि.अ.) - 'महा०' इत्यादि, महानिशीथात्, कल्प-व्यवहारात् तथैव, साधुसाध्वीनां हितार्थाय गच्छाचारप्रकीर्णकं समुद्धृतम् // 135 / / पढंतु साहुणो एयं, असज्झायं विवज्जिउं | उत्तमं सुयनिस्संदं, गच्छायारं सुउत्तमं ||136|| - - - - - - - - - - - 1. 'कलहइ' D-आदिप्रते /

Loading...

Page Navigation
1 ... 177 178 179 180 181 182