Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ fer पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .. 155 पठन्तु साधवः एतं अस्वाध्यायिकं विवर्ण्य / उत्तमं श्रुतनिस्यन्दं गच्छाचारं सूत्तमम् // 136 / / (प्र.अ.) - ‘पढंतु०' इत्यादि, अस्वाध्यायं वर्जयित्वा एतं गच्छाचारं पठन्तु साधवो = मुनयः / किम्भूतम् ? उत्तमसिद्धान्तरहस्यभूतम्, उत्तमोत्तमम् // 136 // ___ (द्वि.अ.) - 'पढं०' इत्यादि, अस्वाध्यायं वर्जयित्वा एतं गच्छाचारं साधवः पठन्तु / किम्भूतम् गच्छाचारम् ? उत्तमं सिद्धान्तरहस्यम्, उत्तमोत्तमम् // 136 / / किञ्च - गच्छायारं सुणित्ताणं, पठित्ता भिक्खुभिक्खुणी / कुणंतु जं जहाभणियं इच्छंता हियमप्पणो ||137|| गच्छाचारं श्रुत्वा पठित्वा भिक्षवः भिक्षुण्यः / कुर्वन्तु यद्यथा भणितमिच्छन्तः हितमात्मनः // 137 / / // इति गच्छाचारप्रकीर्णकसूत्रम् // __ (प्र.अ.) - 'गच्छायारं०' इत्यादि, गच्छाचारं श्रुत्वा पठित्वा साधुसाध्व्यः आत्महितं वाञ्छमाना यद्यथा भणितं तत्तथा कुर्वन्तु मुनयश्चारित्रोद्यता इति गाथार्थः // 137 // ___ (द्वि.अ.) - 'गच्छा०' इत्यादि, एनं गच्छाचारं श्रुत्वा पठित्वा साधुसाध्व्य आत्मनो हितार्थं वाञ्छमाना यद्यथा भणितं सूत्रे तत्तथा कुर्वन्तु // 137 // // इति समाप्तं सावचूर्णिकं श्रीगच्छाचारप्रकीर्णकम् // // इति श्रीगच्छाचारस्यावचूरिः पण्डितश्रीहर्षकुलेन कृता |

Page Navigation
1 ... 178 179 180 181 182