Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 137 00 पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् / घनगर्जितहयकुहकविधुदुर्गाह्यगूढहृदयाः / आर्या अवारिताः, स्त्रीराज्यं, न स गच्छः // 95 / / यत्र समुद्देशकाले साधूनां मण्डल्यां आर्याः / गौतम ! स्थापयन्ति पादौ स्त्रीराज्यं न स गच्छः // 96 / / (प्र.अ.) - 'घणग०' इत्यादि, यत्र = गच्छे अवारिताः = स्वेच्छाचारिण्यः आर्याः घनगर्जितं कुर्वन्ति, हयकुहकं कुर्वन्ति = अश्ववत् कुहकं शब्दं कुर्वन्ति / आर्या किम्भूता ? विद्युद्ग्रहणशिक्या = तडिद्वद् दुर्गाह्या, गूढहृदया = गूढगुप्तचारित्रा एवंविधा यत्रार्या भवन्ति तत् स्त्रीराज्यम् // 15 // ___ (द्वि.अ.) - 'घणग०' यत्रावारिता गुर्वादिना स्वेच्छाचारिण्यः आर्या विद्युत् = तडिदिव दुर्गाह्याश्च गूढहृदयाश्च मूढहृदया वा दुर्ग्राह्यगूढहृदयाः साध्व्यः घनगर्जनादि कुर्वन्ति / तत्र घनगर्जितम् = मेघवद्गर्जितं कुर्वन्ति मुखविकारेण / तथा हयकुहकम् = अश्ववद् कुहकशब्दं यथाऽश्वो मार्गे चलयन् शब्दायते एवं शब्दकरणं हयकुहकमुच्यते, तदेवं यत्र गच्छे साध्वीभिः क्रियते तत् स्त्रीराज्यं परं स गच्छो नेति // 15 // ___ (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे समुद्देशकाले भोजनमण्डल्यां = साधुभोजनकाले साध्व्यः पादौ स्थापयन्ति = मण्डल्यां समागच्छन्तीत्यर्थः / हे गौतम ! तत् स्त्रीराज्यं न गच्छः // 96 / / (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र समुद्देशकालो = साधूनां भोजनमण्डलिकं समुद्देशमुच्यते तत्रार्याः पादौ स्थापयन्ति = तदवसरे आर्याः प्रविशन्ति / हे गौतम ! तत् स्त्रीराज्यं न गच्छः // 16 // अथ सन्मुनिसद्गुणप्ररूपणेन सद्गणस्वरूपमाह - जत्थ मुणीण कसाया, जगडिज्जंता वि परकसाएहिं / नेच्छंति समुढेउं, सुनिविट्ठो पंगुलो चेव ||97|| धम्मंतरायभीए, भीए संसारगब्भवसहीणं / न उईरंति कसाए, मुणी मुणीणं तयं गच्छं // 98||

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182