Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ - पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् समा सीस-पडिच्छीणं, चोअणासु अणालसा / गणिणी गुणसंपन्ना, पसत्थपरिसाणुगा ||127|| समाः शिष्यप्रातीच्छिकानां चोदनासु अनालस्याः / गणिन्यो गुणसम्पन्नाः प्रशस्तपरिषदनुगताः // 127 // (प्र.अ.) - 'समा०' इत्यादि, स्वशिष्यणी-प्रतीच्छिकानां पठनार्थमागतानां समा = तुल्या भवन्ति, तथा चोयणादिके उद्यमवत्यः, प्रशस्तपरिवारयुक्ताः, एवंविधा गणिनी मुख्यसाध्वी गुणसंपन्ना कथ्यते // 127 // __ (द्वि.अ.) - 'समा०' इत्यादि, स्वशिष्यणीप्रतीच्छिकानां पठनार्थमागतानां तुल्यस्वभावाः, चोदनादौ उद्यच्छन्त्यः, प्रशस्तपरिषदनुगताः, एवंविधा गणिन्यो भवन्ति // 127 // संविग्गा भीयपरिसा य, उग्गदंडा य कारणे / सज्झाय-झाणजुत्ता य, संगहे अ विसारया ||128|| संविग्नाः भीतपर्षदश्च उग्रदण्डा च कारणे / स्वाध्यायध्यानयुक्ताः सङ्ग्रहे च विशारदाः // 128 // (प्र.अ.) - 'संविग्गा०' इत्यादि, संविग्नाः = संवेगवन्त्यो भवन्ति, भीतपरिषदः भीताः = भयभ्रान्ताः पातकेभ्यो यस्याः परिषदः सुशिष्यिण्यः आज्ञामध्ये परिवारे = आज्ञायुक्तपरिवारे तिष्ठन्ति, न तु स्वेच्छाचारिण्यः / कारणे कार्ये उग्रदण्डा = महत्तमदण्डा, अकार्ये कृते महत्तरदण्डम् = बहुदण्डम् आक्रोशनां = वर्जनारूपं करोति इति या सा उग्रदण्डकारिणी, च पुनः स्वाध्यायध्यानयुक्ताः, एवंविधा च पुनः संग्रहविशारदाः, अत एव कुशलहेयोपादेयज्ञेयोत्सर्गरूपापवादशेति गाथार्थः // 124 // ___ (द्वि.अ.) - 'संवि०' इत्यादि, संविग्नाः, भीतपरिषदः = स्ववशीकृतशिष्यिण्यः, कारणे उग्रदण्डाः = अकर्त्तव्यादौ बहुदण्डप्रदाः, स्वाध्यायध्यानसंयुक्ताः, संग्रहे = शिष्यिणीनामुपकरणादीनां संरक्षणे विशारदाः // 128 / / 1. '०पुरिसाणुगा' पूर्वमुद्रिते, अत्र E-H-आदिप्रतपाठः /

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182