Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ been पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // 147 अथवा दैवसिकमतीचारं पाक्षिकातीचारं वा नालोचयति / च पुनः यत्र स्वेच्छाचारिण्यः श्रमण्यः महत्तरिकाया आज्ञायां न तिष्ठन्ति / स गच्छो न प्रधानः // 118 // विंटलिआणि पउंजंति, गिलाण-सेहीण नैव तप्पंति | अणगाढे आगाढं, करंति आगाढि अणगाढं ||119|| विंटलिकानि प्रयुञ्जन्ते, ग्लानशैक्ष्यान् नैव तर्पयन्ति / अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् // 119 // (प्र.अ.) - "विटलि.' इत्यादि, विंटलिकानि = यंत्रमंत्राणि = कामनमोहनरूपादीनि यत्र = गच्छे आर्या कुर्वन्ति / अनागाढे आगाढं कुर्वन्ति, आगाढे चानागाढम् // 119 // (द्वि.अ.) - 'विंट०' इत्यादि, विंटलानि = कुटिलकार्मणादिहेतुयंत्रमंत्राणि प्रयुञ्जन्ति / ग्लानरोगिणीनां प्रव्रजितसाध्वीनां न चिंतां कुर्वन्ति / अनागाढे कार्ये आगाढं कार्य कुर्वन्ति / आगाढे अनागाढम् / तत्र येन कार्येण कृतेनांतरा साधुसाध्वीनां न सरति (कार्यम्) तदागाढम् / तद्विपरीतमनागाढम् // 119 / / तथा - अजयणाए पकुव्वंति, पाहुणगाण अवच्छला / चित्तलयाणि अ सेवंते, चित्ता रयहरणे तहा ||120|| अयतनया प्रकुर्वन्ति प्राघूर्णिकानामवत्सला / चित्तलानि च सेवन्ते, चित्राणि रजोहरणानि तथा // 120 // (प्र.अ.) - 'अजय०' इत्यादि, यत्र प्राघूर्णिकानाम् = ग्रामादागतसाध्वीनां भक्ति न कुर्वन्ति तत्र ग्रामस्था आर्याः / च पुनः चित्रलकानि विचित्रवस्त्राणि वा / चित्रलकानि = सारपाशाः एकीबेकीप्रभृतयः तानि सेवन्ते / तथा रजोहरणे विचित्रविज्ञानं कुर्वन्ति // 120 // (द्वि.अ.) - 'अज०' इत्यादि, यत्रायतनया प्रवर्त्तन्ते / प्राघुर्णिकानां = साध्वीनाम् अवत्सला इति न भक्तिं कुर्वन्ति / तथा चित्रलकानि = चित्रविचित्राणि वस्त्राणि / 1. 'नेय' E-F-G-H-प्रते, 'नेव तिप्पंति' D-प्रते / - - - - - - - - - - - - - - - - -

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182