Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 134 श्रीगच्छाचारप्रकीर्णकम् // स्फटिकानां, शयनानाम्, आसनानाम्, शुषिराणाम् = सच्छिद्राणां परिभोगः // 88 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र = गच्छे वारडिकानाम् = रक्तरंगरञ्जितवस्त्राणां तत्तडियाणं = नीलपीतादिरंगितवस्त्राणां परिभोगः क्रियते शुक्लवस्त्राणि मुक्त्वा, तत्र हे गौतम ! का मर्यादा ? इति गाथार्थः // 89 // (द्वि.अ.) - 'जत्थ य०' इत्यादि, 'वारडियाणं'ति रक्तवस्त्राणाम्, तत्तडियाणम् = नीलपीतादिरंगितवस्त्राणां मध्ये अन्यतरत् शुक्लवस्त्रं मुक्त्वा परिभोगः क्रियते तत्र गच्छे का मर्यादा ? // 89 // कांस्यताम्रादिभ्यः स्वर्णरूप्यं बबनर्थकारीत्यतस्तन्निषेधं दृढयन्नाह - . जत्थ हिरण्ण-सुवण्णं, हत्थेण पराणगं पि नो छिप्पे | कारणसमप्पियंपि हु निमिसखणद्धंपि, तं गच्छं / / 90|| यत्र हिरण्यसुवर्णे हस्तेन परकीयेऽपि न स्पृशेत् / कारणसमर्पितेऽपि हु निमेषक्षणार्धं स गच्छः // 10 // (प्र.अ.) - 'जत्थ य०' यत्र हिरण्यसुवर्णं हस्तेन पारकीनमपि न छिप्यते = न गृह्यते स्पर्शेन कारणेनापि स गच्छः / निमिषम् = मेषोन्मेषं यावद् क्षणार्धमपि // 90 // (द्वि.अ.) - 'जत्थ हि०' इत्यादि, यत्र परकीयमपि हिरण्यस्वर्णं कारणे समुत्पन्नेऽपि हस्तेन साधुर्न स्पृशेत् स गच्छः // 10 // अथाऽऽर्यिकाद्वारेण गणस्वरूपमाह - जत्थ य अज्जालद्धं, पडिग्गहमाईवि विविहमुवगरणं / परिभुंजइ साहूहिं, तं गोयम ! केरिसं गच्छं ? ||91|| यत्र चाऽऽर्यालब्धं, पतद्ग्रहाद्यपि विविधमुपकरणम् / परिभुज्यते साधुभिः स गौतम ! कीदृशो गच्छः ? // 91 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र = गच्छे आर्या = साध्वी, तया लब्धम् 1. 'अथाऽऽर्यकाद्वारेण' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः /

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182