Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 125 her पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ng - (प्र.अ.) - 'खेल०' इत्यादि, यथा श्लेष्मपतितमात्मानं मोचयितुं मक्षिका न शक्नोति / तथा आर्यानुचरः साधुरात्मानं मोचयितुं न शक्नोति // 69 // (द्वि.अ.) - ‘खेल०' इत्यादि, श्लेष्मपतितमात्मानं न शक्नोति मक्षिका यथा मोचयितुं तथाऽऽर्यानुचरः साधुरात्मानं मोचयितुं न शक्नोति // 69 // साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा / धम्मेण सह ठवंतो, न य सरिसो जाण असिलेसो ||70|| साधोर्नास्ति लोके, आर्यासदृशी हु बन्धने उपमा / धर्मेण सह स्थापयतो न च सदृशो जानीह्यश्लेषः // 70 // (प्र.अ.) - 'साहु०' इत्यादि, लोके साधोरार्यासदृशी बन्धनोपमा नास्ति / लोके पगबंधण इति प्रसिद्धः / (यः पुनः) धर्मभ्रष्टा धर्मेण सह स्थापयेत् (तस्य) आर्यासदृशं = साध्वीसदृशम् अश्लेषोऽबन्धनं नास्ति // 70 // (द्वि.अ.) - 'साहु०' इत्यादि, लोके साधोः आर्यासदृशी बन्धने उपमा नास्ति / धर्माद् भ्रष्टां दृष्ट्वा धर्मेण सह स्थापयन् यासां सदृशः = साध्वीसदृशः अश्लेषोऽबन्धनं नास्ति // 70 // पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाह - वायामित्तेणवि जत्थ, भट्टचरित्तस्स निग्गहं विहिणा | बहुलद्धिंजुअस्सावी, कीरइ गुरुणा तयं गच्छं ||71| वाङ्मात्रेणापि यत्र, भ्रष्टचरित्रस्य निग्रहो विधिना / बहुलब्धियुतस्यापि, क्रियते गुरुणा स गच्छः // 71 // (प्र.अ.) - 'वाया०' इत्यादि, बहुलब्धियुक्तस्यापि, भ्रष्टचारित्रस्यापि, वाङ्मात्रस्यापि गुरुणा यत्र निग्रहो विधीयते स गच्छः // 71 // - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'तथा..........शक्नोति' इति पाठ: A-संज्ञकप्रतौ नास्ति / 2. 'उवेंतो' E-F-प्रते / 3. 'जाणयसिलेसा' Eप्रते, 'जाणयसिलेसो' C-प्रते, 'जाणगसिलेसो' F-H-प्रते, अत्र पुनः A-B-D-G-प्रतपाठः / 4. 'जुयस्सा वी' H-प्रते /

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182