Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 151
________________ 126 per श्रीगच्छाचारप्रकीर्णकम् // (द्वि.अ.) - 'वायामि०' इत्यादि, बहुलब्धियुक्तस्य, भ्रष्टचारित्रस्य वाङमात्रेणापि गुरुणा यत्र गच्छे शिष्यस्य निग्रहो विधीयते स गच्छः // 71 // जत्थ य संनिहि-उक्खड-आहडमाईण नामगहणेऽवि / पूईकम्मा भीआ, आउत्ता कप्प-तिप्पेसु ||72|| यत्र च सन्निध्युपस्कृत-आहृतादीनां नामग्रहणेऽपि / पूतिकर्मणः भीता आयुक्ताः कल्पत्रेपयोः // 72 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र गच्छे संनिधिः / उक्खडेत्यौद्देशिकं = साधूनुद्दिश्य गणनया कृतम्, च = पुनः, अभ्याहृतम्, आदिशब्दादाधाकर्मक्रीतमिश्रजातादिसंग्रहः / इत्यादीनां दोषाणां संग्रहः / एतेषामपि नामग्रहणे साधवो भीता भवन्ति / पूतिकर्मभीता भवन्ति च / कापत्रेपेषु उद्यताः, 'कापत्रेप' इति साधुभाषा, एवंविधा साधवो यत्र भवन्ति स गच्छः // 72 / / (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र संनिधिः / उक्खडम् = औद्देशिकम् / अभ्याहृतम् इत्यादीनां दोषाणां नामग्रहणेऽपि साधवो भीता भवन्ति / पूतिकर्मभीता भवन्ति च / कापत्रेपेषु उद्यताः, 'कापत्रेप' इति साधुपरम्पराप्रसिद्धभाषादिविधिः / एवंविधा साधवो भवन्ति यत्र स गच्छः // 72 // मउए निहुअसहावे, हास-द्दवविवज्जिए विगहमुक्के / असमंजसमकरंते, गोयरभूमऽट्ट विहरंति |73|| मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः / असमञ्जसमकुर्वन्तः गोचरभूम्यर्थं(गोचरभूम्यष्टकं)विहरन्ति // 73 // (प्र.अ.) - 'मउए०' इत्यादि, मृदुकः = सुकुमालस्वभावः, गंभीरचित्तः, हास्यम् = अन्येषामुपहसनरूपम् द्रवः = क्रीडारसः ताभ्यां विवर्जितः / च पुनः विकथामुक्तः / असमञ्जसम् = अन्यायमकुर्वन्तः, गोचरभूमिका) विहारं कुर्वन्ति / एवंविधा यत्र साधवो भवन्ति स गच्छः // 73 // - - - - - - - - - - - - - - - - - - - - - - - - 1. '०तेप्पेसु' F-प्रते / 2. 'असमंजसमकरिते' A-आदिषु / 3. 'वियरंति' E-G-प्रतपाठः /

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182