Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 144
________________ 119 porn पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् - (द्वि.अ.) - 'गुरु०' इत्यादि, गुरुणा कार्याऽकार्ये च खरकर्कशनिष्ठुरया गिरया भणिते सति शिष्यास्तथेति भणन्ति यत्र गच्छे तं गच्छं जानीहि // 56 // दूरुज्झियपत्ताइसु ममत्तए, निप्पिहे सरीरेऽवि | जायमजायाहारे बायालीसेसणाकुसले ||57|| दूरोज्झितपात्रादिममत्वो निस्पृहः शरीरेऽपि / जाताजाताहारः द्विचत्वारिंशदेषणाकुशलः // 57 // (प्र.अ.) - ‘दुरुज्झि०' इत्यादि, पात्रोपधिप्रमुखेषु वस्तुषु यत्र गच्छे साधवो दूरोज्झितममत्वाः = दूरीकृतममत्वभावाः, अत एव तेषु ममत्वभावं न कुर्वन्ति / यत्तेषां परिभोग्य वस्तु तदपि न मामकीनं कथयति किन्तु मम परिभोग्यमिति सम्बन्धः / ये साधवो निस्पृहाः कुत्र ? स्वशरीरेऽपि = देहेऽपि, यात्रामात्राहारः, अत एव उदरस्य षष्टभागं न्यूनगं कुर्वन्ति / पुनर्द्विचत्वारिंशदेषणादोषकुशला एवंविधा यत्र साधवो भवन्ति हे गौतम ! स गच्छः // 57|| (द्वि.अ.) - 'दूरु०' इत्यादि, पात्रोपधिप्रमुखेषु ममतां दूरतस्त्यजन्ति, शरीरेऽपि निस्पृहो, यात्रामात्रयाहारग्रहणनिपुणो, द्विचत्वारिंशद्दोषकुशलश्च गच्छवासी साधुर्भवति // 57|| तं पि न रूव-रसत्थं, न य वण्णत्थं, न चेव दप्पत्थं / संजमभरवहणत्थं, अक्खोवंगं व वहणत्थं ||58|| तमपि न रूपरसार्थं न च वर्णार्थं न चैव दर्पार्थम् / संयमभारवहनार्थम्, अक्षोपाङ्गमिव वहनार्थम् // 58 / / (प्र.अ.) - 'तंपि०' इत्यादि, तदपि = एषणाशुद्धमप्याहारं न कुर्वन्ति, किमर्थम्? रूपरसवृद्ध्यर्थम्, यतो मम कायः पुष्टो निरुपमपि रूपसंपद् भवति / तथा च वर्णार्थम्, मम शरीरवर्णो विशिष्टतरो भवति / न चैव दार्थम् = दर्पस्तदर्थं, किन्तु अक्षोपांगमिव शरीरशकटवहनार्थमाहारः ओंगणसमो भवति, यथा शकटमोंगणं विना न सज्जीभवति = नोद्वहति इति गाथार्थः // 58 //

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182