Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 138
________________ ofen पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् - 113 - (प्र.अ.) - 'तो जे अ०' इत्यादि, हे गौतम ! यः संयतः साधुरनधीतपरमार्थः = अज्ञाततत्त्वो भवति तस्मात्तान् दुर्गतिपथदेष्टुन् = दायकान् अगीतार्थान् विवर्जयेत् = परिहरेदित्यर्थः // 43 // (द्वि.अ.) - 'तो जे०' इत्यादि, हे गौतम ! यः संयतोऽनधीतपरमार्थः = अज्ञातपरमार्थो भवति स मोक्षमार्गविधावनिपुण इति, तस्मात्तान् अगीतार्थान् दुर्गतिपथदायकान् विवर्जयेदिति // 43 / / गीअत्थस्स वयणेणं, विसं हालाहलं पिवे | निम्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ||44|| गीतार्थस्य वचनेन विषं हालाहलं पिबेत् / निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् // 44 // (प्र.अ.) - 'गीअ०' इत्यादि, गीतार्थस्य = सम्यग्ज्ञाततत्त्वस्य गुरोरिति वचनेन = वाक्येन निर्विकल्पः सन् = आशंकाभीतिरहितः सन् हालाहलं महाविषं दारुणकटुकपरिणामं विषं पिबेत् = पानं कुर्यात्, यस्मात् करणात् तत्क्षणे समुद्रवेत् = मरणं प्राप्नोतीति गाथार्थः // 44 // (द्वि.अ.) - 'गीय०' इत्यादि, गीतार्थस्य वचनेन निर्विकल्पः सन् = आशंकादिरहितः सन् हालाहलं = दारुणं विषं पिबेत् = पानं कुर्यात्, यस्मात् कारणात् तत्क्षणम् = समकालमेव समुपद्रवेत् = मरणं प्रापयेदिति // 44 // परमत्थओ विसं नो तं, अमयरसायणं खु तं / निविग्घं जं न तं मारे, मओऽवि अमयस्समो ||45|| परमार्थतो विषं न तदमृतरसायनं खु तत् / / निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः // 45 // (प्र.अ.) - 'परम०' इत्यादि, परमार्थतो = निश्चयन्यायेन तद्विषं न भावि, तद्विषममृतरसायनसमं भवति, यद्विषं निर्विघ्नं निर्दोषं भवति = न मारयति / स 1. 'तक्खणा' C-D-F-G-H-प्रते, अत्र पुनः A-B-प्रतपाठः / - - - - - - - - - -

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182