Book Title: Dropadi Swayamvaram Author(s): Jinvijay, Shantiprasad M Pandya Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi AhmedabadPage 47
________________ विजयपाल-विरचितं श्रीसरस्वत्यै नमः । अम्भोजासनसारथौ क्षितिरथे चन्द्रार्कचक्रे स्थितो लक्ष्मीनायकसायकं युधि दधद्देवाद्रिबाणासनम् । . निर्भिय त्रिपुरं पुरा जयरमामासाद्य मोदं दघन सोऽयं धन्विधुरन्धरो विजयते चन्द्रार्धचूडामणिः ॥१॥ अपि च आश्चर्योदयबन्धुसिन्धुमथनप्रारम्भसंरम्भिणं दुरामरवैरिवारणचमूपश्चत्वपश्चाननम् । दैत्यादत्यपराङ्मुखी गुरुगुणप्रामानुरागानुगा यं लक्ष्मीरवृणोत्स्वयं स भगवांल्लक्ष्मीपतिः पातु षः ॥२॥ (नान्यन्ते) सूत्रधारः- (नेपथ्याभिमुखमवलोक्य) कस्कोऽत्र अस्मत्परिजनेषु । (प्रविश्य पटाक्षेपेण) पारिपार्श्वकः-(पविनयं) (क) भाव ! एसो म्हि ।। सूत्रधारः- अद्याहं श्रीचौलुक्यकुलराज्यकमलाकेलिकाञ्चनकमलेन भुजपरिध. परित्रातधरित्रीमण्डलेन जयलक्ष्मीकर्णकुण्डलेन पृथ्वीतलाखण्डलेन नयवत्मवर्तनाभिरामतारमदेवेनं अभिनवसिद्धराजमहाराजश्रीभीम. देवेन समादिष्टोऽस्मि । यदस्मिन्वसन्तोत्सवे त्रिभुवनाद्भुत प्रभाववैभवानां श्रीमत्रिपुरुषदेवानां पुरतः प्रमोदिताणहिल्लपाटकं नाटकं भवताऽभिनीयतामिति । पारिपार्श्वकः-(ख) भाव ! कि पि अवरं पुच्छिदुकाम म्हि । सूत्रधारः- यहच्छया पृच्छ । पारिपार्श्वकः-(ग) नरिंदमणाणंदणाय जं अञ्चन्भुदं करणं तुम्हेहि मह आणत्तं तं अवरे वि कवडघडणानिउणेहि नाडएहि नच्चिदुं प्रारद्रं । ता कि मए कायव्वं । (क) भाव ! एषोऽस्मि । (ख) भाव ! किमप्यरं प्रध्दुकामोऽस्मि । (ग) नरेन्द्रमनभानन्दनाथ यदत्याभुतं करणं युष्माभिर्ममाझप्तं तदपरैरपि कपटघठना. निपुणेनटेन तितुं प्रारब्धम् । तत् किं मया कर्तव्यम् ।।Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90