Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
अथ द्वितीयोऽङ्कः ।
(ततः प्रविशति ! निजनिजमञ्चस्थितसकलभूपालचक्रपरिगतो भगवता वासुदेवेन सह द्रुपदः । द्रुपदः- अयि प्रतिहार ! समाकाराय कन्यान्तःपुराद् याज्ञसेनीम् ।
(प्रतीहारस्तथा कृत्वा द्रौपदीसहितः प्रविशति ।) द्रौपदी- (सलज्जाकौतुकं) (क) सयलदिशागदविविहदेसविसेसकयवेसनरे
सरपलोअणपल्लविदकोदुहल्फुल्लं पि मह हिअयं लज्जाए मउला.
विज्जदि । सखो- (ख) सहि ! का इत्थ लज्जा । अणेगसो इन्दुमदीपहुदीणं पुरावि .. रायकन्नाणं सयंवरो संवुत्तो । द्रौपदी- (ग) सहि ! एहि ताव तायं पणभामो (इति तथा करोति।) . द्रुपदः- वत्से ! वृणीष्व यहच्छया वरम् । (इति स्वयंवरमालाहस्ता सखी.
दत्तहस्तावलम्बा मम्चान्तरपदेन परिकामति ।) दुर्योधनः- ( सहसा द्रौपदीमायान्तीमालोक्य सोन्मादं)
ब्रह्मास्त्रमेषा कुसुमायुधस्य
स्त्रीवर्गसमें कलशं विधातुः । अहो ! वपुलॊचनभङ्गसङ्ग
लीलामधच्छत्रमिदं विभर्ति ॥१॥
(क) सकलदिशागतविविधदेशविशेषकृतवेशनरेश्वरप्रलोकनपल्लवितकुतूहलफुल्लमपि मम
हृदयं लज्जया मुकुलायते । (ख) सखि | काऽत्र लज्जा । अनेकशे इन्दुमतीप्रभृतीनां पुराऽपि राजकन्यानां
स्वयंवरः संवृत्तः । (ग) सखि ! एहि तात्रत्तातं प्रणमावः ।
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90