Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विजयपाल-विरचित सिशुपाल:-(पाञ्चालीमायान्तीमालोक्य)
मृगीरशोऽस्या बदमारबिन्द
___ लावण्यखर्वीकृतकान्तिगर्वः । शके शशाङ्कः श्रितशोकशङ्क
लक्ष्मच्छलेनाञ्चति डिम्बमन्तः ॥२॥... मागधो- (क) एस निअविकमक्कंतसयलभूवालो सिसुवालो । पाञ्चाली-(ख) अलमिमिणा धम्मपरम्मुहेण । अर्जुनः- ( आयान्ती पाञ्चालीमालोक्य स्वगतम् ।)
ललितेषु कृतोत्कर्षा गरिष्ठगुणसङ्गिनी ।
सद्वंशप्रभवा भाति स्मरस्येव धनुर्लता ॥३॥ मागधी- (द्विजान्दर्शयन्तो) (ग) पियसहि ! इदो इदो पिच्छ, एदे राहावेह
वियंभियजसपेसलपुरिसविसेससणाहा दियवस दीसति । पाञ्चाली-(सानुरागं साभिलाष अर्जुनाभिमुखं वीक्ष्य स्वगत सस्नेहम् ।)
(घ) अणुदिणघणुगुणकड्ढणककढिणंगुलिछलफुरंततमयणसरो ।
एयस्स करो कइया मह करकमलसङ्गहं किरही ॥४॥ जलहरगोवियदिणयरसमेण दियवेसंछन्नतेएण । भिन्ना इमिणा राहा बाणेहि गुणेहि मह हिययं ॥५॥
(क) एष निजविक्रमाकान्तसकलभूपाल: शिशुपालः । .. (ख) भलमनेन धर्मपराङ्मुखेन । (ग) प्रियसखि ! इत इतः पश्य; एते राधावेधबिजम्भितयशःपेशलपुरुषविशेषसनाथा
द्विजवरा दृश्यन्ते । (घ) अनुदिनधनुर्गुणकर्षणकठिनाङ्गुलिच्छलस्फुरन्मदनशरः ।
एतस्य करः कदा मम करकमलसङ्गमं करिष्यति ॥४॥ जलधरगोपितदिनकरसमेन द्विजवेषच्छन्नतेजसा । भिन्नाऽनेन राधा बाणैर्गुणर्मम हृदयम् ।।५।।
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90