Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विनयपाल-विरचितं
पार्थः- एतां न पाटयाम्यद्य यदि राधां वृकोदर ! ।
इतः प्रभृति नो चापं करिष्यामि करे ततः ॥३९।।
(इति एकेन शरेण मन्द चक्रमाहन्ति ।) (नृपाः सर्वेऽपि हसन्ते हर्षकोलाहलं [च] कुर्गन्ति ।) (मत्स्यस्तेन शब्देन सविस्मयो निश्चललोचनो विलोकयति । )
(पार्थो द्वितीयशरेण यथाविधि मीनलोचनकनीनिकामाहन्ति ।) कृष्णः- (सानन्दम् ) अयि द्रुपदनरपते ! दिष्टया वर्द्धसे दुहितुर्वरलाभेन । द्रुपदः- भवत्प्रसादेन मम सर्वमपि, शुभोदकं भविष्यति ।
( सोऽप्यन्ये भूमिगलाः परस्परक्षिसञ्चारेण विसंवदन्ति । ).. अन्ये भूमिपालाः-( द्रुपढनरेन्द्र प्रति ।) स्त्रीवर्गरत्नस्य मृगीदृशोऽस्याः
काप्येष किं कार्पटिकः पतिः स्यात् । राधाऽपि न प्राग्विशिखेन भिन्ना, .
स्वयंवरस्तक्रियतां नरेन्द्र ! ॥४०॥
(द्रुपद. कुष्णामिमुखमवलोकयति ।) कृष्णः- भवत्वेवम् । द्रुपदः- हो प्रतीहार ! स्वयंवरमञ्चं प्रगुणयताम् । सर्वैरपि नरेन्द्रैः सह एते वयं सम्प्राप्ता एव ।
(इति निष्कान्ताः सर्वे ।)
॥ प्रथमोऽङ्कः समाप्तः ॥
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90