Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
२०
द्रोण:
विजयपाल-विरचितं
( कृष्णः सहसा तदन्तराले मायामयमन्धकारमङ्कुरयति । )
( पुरोऽवलोक्य
दुर्योधनं प्रति 1 )
अपि च
तिमिरतिरस्करिणीतिरस्कृतलोचनालोकः प्रतिनेवृत्य
कृष्णक्षपा समुदात्किमभूदकाण्डे
कि दुर्दिनं किमभवन्मम सन्निपातः ।
किं स्वापमपमगमं किमु नागबेश्म
किं गर्भवासमविशं नहि वेद्मि किञ्चित् ॥२६॥ ( दुर्योधनः- गाङ्गेयसम्मुखमुदीक्षते । )
गाङ्गेयः
मुक्तिक्रीडाकरमकरवं यत्नतो ब्रह्मचर्यं *
तन्मे कृत्यं रतिरमयितुर्मायया जायया किम् । नापाणिग्रहणपणितामेवमेवापि भिन्दन्
राधामेनां कुलगुरुरहं लज्जया रुद्ध एषः ॥२७॥
दुर्योधनः- अयि चम्पाधिराज ! चापारोपणचापलमाचरन् विसूत्रय राधायन्त्रम् ।
कर्णः - ( स्वभुजौ निर्वर्ण्य )
शेषभोगसमाभोगमद् भुजस्तम्भपीडनम् । क्षमिष्यते गुणारोपमात्रमप्यत्र नो धनुः ||२८||
अखिलत रुकुञ्जभजन ! कुरुराज ! वितर वितर मम सत्वरतरमादेशम् ।
मध्नातु किं रविरथध्वज मिन्दुलक्ष्म
कि तक्षतु, क्षिपतु कि मुकुटं मघोनः ।
राधां यथाविधि विभिद्य ममाद्य बाणः कि दुष्करान्तरमपि प्रसभं करोतु ॥ २९ ॥
दुर्योधनः- किमसम्भाव्यमस्मदीयबान्धव भुजबलस्य । परं सम्प्रति प्रस्तुतमेव प्रस्तूयताम् ।
.. ( कर्णस्तदभिमुखमुपसर्पति । )
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90