Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विजयपाल- विरचितं
(कृष्ण:- अन्तराले मायामयमर्जुनद्रौपदीविवाह दर्शयति । )
( विलोक्य सविस्मयमपसृत्य । )
इहोद्वहति पार्थोऽयं कृतार्थो द्रुपदात्मजाम् । तन्मे कृष्णा वध्वा राधामुच्छिष्टां च भिनत्ति कः ॥ ३० ॥ दुर्योधनः - भवन्तु, अमी । वयं स्वयमेव याज्ञसेनी पाणिपीडनप्रतिभुवं धनु दण्डमारोपयिष्याम: | ( इत्युत्थाय तथा कुर्वन्करद्वय कम्पमभिनयति । )
कृष्णः - ( विलोक्य)
२२
कर्ण:
करकम्पोऽभवद्भीतिजातः स्वेदजलाकुलः ।
न करः कुरुराजस्य धनुर्धर्तुमपि क्षमः ||३१||
(निरवशेषदर्शित निजवलोsपि धनुर्दण्डसारमसहमानो दुर्योधनः क्षितितले निपतति ।) ( कृष्ण: सानन्दं स्मयते । )
(सकलमपि राजचक्र मुक्तप्रत्याशं विलक्षमघोमुखमीक्षते 1 ) नारोपि चापं मनुराजपुत्रैनरोपि चापं दनुनन्दनैश्च ||३२|| शिशुपालः - (सकोपाटोपं ललाटतटघटितभ्रकुटीविटङ्कः 1 )
रेरे गोकुलवीर ! कीर इव किं यत्किञ्चिदाभाषसे यन्नारोपि नरेश्वरैस्तदिह कि नारोपि दैत्यैरपि । किं जानासि न विश्वविश्ववलयापर्यायपर्यासना
प्राप्तालं शिशुपाल एष पुरतो राधाभिदे तिष्ठति ॥ ३३॥
कृष्णः -
अन्यच्च
यत्रोच्चैः ः कनकाचलः कलयति स्तम्भस्य लीलायितं ताराचक्रमजस्रचङ्क्रमणतश्चऋश्रियं गाहते ।
शीतांशुः श्रयते चलत्तिमिकलां लक्ष्यं तदेणेक्षणं
वीरोऽहं तदपि क्षिणोमि रभसार्दिक मेऽनया राधया ||३४|| ( इति ससंरम्भं विकटपदक्रमं परिक्रामति । )
कृष्णः - ( सभयक्रम्यं) न जाने किमिदानों भविष्यति । अतिबलीयानयं
खलः । भवतु, भुवनत्रयं भवधनुषि भाराय. समारोपयिष्यामि । ( इति तथा करोति । )
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90