Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विजयपाल-विरचितं
॥ आमुखम् ॥
(ततः प्रविशति कृष्णः।) कृष्णः- (विमृश्य स्वगतं सहर्ष)
तस्मै देया त्वयाऽसौ खलु निजतनया यो धनुर्वेदधीरो
राधावेधं विधत्ते द्रुपदनरपतेः पूर्वमादिष्टमेवम् । . .. दम्भोलिस्तम्भशोभासुभगभुजयुगभ्राजिपार्थानुयाता
स्ते चानीता इहैवानिलतनयसुतं प्रेष्य पाण्डोस्तनूजाः ॥५॥ तदिदं तावत्सुविहितम् । परमद्यापि कियदवशिष्यते । भवतु तावत् । आयातु भीमः ।
(ततः प्रविशति भीमः।)
(भीमः परिकम्य यथोचितं सम्भावयति ।) भीम:- (सविनग) अयि भगवन् ! वीरावतंसकंसविध्वंस-लब्धप्रशंस !
किमिति वयमाकारिताः । आदेशदानेन प्रसीदतु भगवान् । कृष्ण:- वत्स ! पाण्डवाभ्युदयादन्यन्न वयं कदा किन्चिदप्युपक्रमामहे ।
ततः परशुरामप्रसादीकृतपञ्चशरीमध्याद् राधावेधाय सूतसूता. द्विशिखद्वयं योचनीयम् । तच्चादाय अलक्षितवेषविशेषविधातृभिः स्वभ्रातृभिः सह कृतार्थेन भवता राधावेधमण्डपोऽलङ्करणीयः । वयमपि सम्प्रति तत्र राधावेधनाटके द्रुपदनरपतेः परिपार्श्ववर्तिनो भवामः ।
(इति निष्क्रान्तः ।) भीमः- (परिक्रम्य पुरोऽवलोक्य च) अये !
अमानदानसानन्दबन्दिसन्दोहसङ्कलम् ।
कर्णस्य मन्दिरद्वारमनुक्तमपि लक्ष्यते ॥६॥ (इति परिक्रम्य द्विजरूपधारी तारस्वरेण वेदोदगारं करोति । )
(ततः प्रविशति प्रतीहारपुरोहिताभ्यामनुगतो दानास्थानमण्डपस्थः कर्णः ।) कर्णः- (सोत्कण्ठं)
चतुर्युगायमाना मे चतस्रो नालिका गताः । . सम्भावयत्यपूर्वोऽर्थी नाद्याध्यद्य कुतोऽपि माम् ॥७॥
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90